________________
प्रतिषोध
कुमार
॥
१
॥
श्रीनाभिकुलकरः । तस्यादियोगिनी मरूदेवी स्वामिनी धर्मपत्नी बभूव । तयोः पुत्रः सकलधर्मार्थकाममोक्षाणां चतुःपुरुषाथोणां प्रथमः साधकः, परेषामुपकाराय प्रथमोपदेष्टा, प्रथमः पुरुषः, प्रजानां सम्यग्योगक्षेमकरणात् प्रथमो नाथः, शैशवे प्रवरेक्षुयष्टिकृतावष्टंभहृष्टत्वात्प्रणामागतेंद्रस्थापितेक्ष्वाकुवंशः समग्रैश्वर्यादिगुणोपेतत्वात् प्रथमो भगवान् प्रथमो जिनः समजनि । तस्मिश्चक्ष्वाकुवंशे क्रमेण षट्त्रिंशद्राजकुलान्यभूवन् । तेषु महापुरुषरत्नसंकुले श्रीचौलुक्यकुले षट्त्रिंशल्लक्षग्रामाभिरामे कान्यकुब्जदेशे कल्याणकटकपुरे श्रीभूयडराजा राज्यं करोति । तेन राज्ञा स्वपुत्री मणयल्लदेवी गुर्जरधरित्रीशं विवाहसंबंधे दत्ता । इतश्च गुर्जरराष्ट्रैकदेशे (गुर्जरैकदेशे) वढियारदेशे पंचासरग्रामबहिःप्रदेशे श्रीशीलगुणसूरयः शकुनावलोकनार्थ गताः । वन गहनमध्ये वृक्षशाखानिबद्धझोलिकायां बालमेकं दृष्ट्वा समीपस्थां तन्मातरमूचुः । भद्रे ! कासित्वं ! तयोक्तं राजपत्न्यहम् । कान्यकुब्जदेशीयश्रीभृयडराजभयेन चापोत्कटकुलकमलबंधोरस्य पुत्रस्य गोपनार्थमत्र स्थिताऽस्मि । ततः सूरिभिरपराह्नेपि तवृक्षच्छायामनमितामालोक्य कोऽप्ययं महानगरेश्वरो भावीति । तत्स्वरूपं श्राद्धानामावेद्य (तस्य) रक्षा कारिता । स च चालकः श्रीगुरुदत्तवनराजनामाष्टवार्षिको राजचिह्नः क्रीडन् परवालकाऽसह्यतेजाः समभूत् । यतःपीऊण पाणीयं सरवरंमि पिट्टि न दिति सिंहडिम्भा। हो ही जाणकलावो पयइ चिय साहए ताण ॥१॥
ततः श्राद्धैः मातुः समर्पितः सन् स चौरमातुलेन सह वनधाट्यादौ परिभ्रमन् अन्यदा काकरग्रामे धनिगृहे खात्रं दत्त्वा प्रविष्टो दधिभाण्डे करे पतिते सति (भुक्त्वाऽतिमात्र) भुक्तोऽहं अत्रेति सर्व हित्वा गतः। प्रातस्तत्पुत्र्या श्रीदेव्या गोरसे हस्ताङ्गुलिचिह्नानि घृतभृतानि दृष्ट्वा कोऽप्ययं महापुरुषो भाग्यवानिति तं बांधवत्वेन प्रतिपद्य "तं दृष्ट्वा भोक्ष्यामि" इति कृता
For Personal & Private Use Only
|॥१॥
Morary.org
Jain E
n
ternational