________________
॥ नमः श्रीपार्श्वनाथाय ॥ परमपूज्य शांतमूर्ति श्रीमद् पंन्यास दयाविमलजीगणिवरपादपत्रेभ्यो नमः
कुमारपालप्रतिबोधप्रबंधः। स्वयंकृतार्थः पुरुषार्थभावैः, जगाद यस्तान जगतां हिताय
नाथः प्रजानां प्रथमः पृथिव्यां, जीया युगादौ पुरुषः स कोऽपि ॥ १ ॥ प्रणमामि महावीरं सर्वज्ञं पुरुषोत्तमम् , सुरासुरनराधीशैः सेव्यमानक्रमाम्बुजम् ॥२॥ परा मनसि पश्यन्ती, हृदि कंठे च मध्यमा, मुखे च वैखरीत्याहुर्भारती तामुपास्महे ॥३॥ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥४॥
सकलसुरासुरनरनिकरनायकशिरःशेखरायमाणपादारविन्दश्रीसर्वज्ञोपज्ञपथपांथ( प्रेष्ठस्य )प्रष्टस्य, कलिकालसर्वज्ञश्रीहेमसूरिगुरूपदेशविवेकविशेषप्राप्ताशेषभूवलयप्रतिष्ठस्य, सकलजंतुजातजीवातुजीवदयाधर्मनिष्ठस्य, निजभुजबलकलितसकल भूपालस्य श्रीकुमारपालस्य प्रारभ्यते प्रतिबोधप्रबन्धोऽयम् । तत्र केऽपि जिज्ञासवःप्रश्नयन्ति-"कोऽयं कुमारपालभूपालः, कश्चायं कलिकालसर्वज्ञः श्रीहेमचन्द्रसरिगुरूः, कथं प्रतियोधस्तस्य" इति सर्वमिदमावेद्यमानं श्रूयताम्-तथाहि. अस्मिन् जंबूद्वीपे भरतक्षेत्रे युगलधर्मकाले प्रवर्त्तमाने तृतीयारकपर्यन्ते सप्त कुलकराः पुराऽभूवन् । तेषु सप्तमः
Far Personal & Private Use Only
Jain Edes
emnational