Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ अर्थसंवेदनचिन्ता] प्रत्यक्षम् 349 एकत्त्वारोपेण प्रवर्तत इति। तदनुरोधात्क्रियाकारकव्यवस्था न परमार्थतः। एवमाकारोपि न फलाधिगतिव्यापकः। अधिगतिस्तु सकलाकारव्यापिका। ततो भेदव्यवस्था प्रमितिप्रमाणयोः। परमार्थतस्त्वाकार एव प्रकाशमानः प्रमितिः। तस्मादाकारः प्रमाणमर्थसम्वेदनं फलमव्यतिरिक्तमेव फलं प्रमाणाततो वा प्रमाणमिति। तथा चोक्तं। सव्यापार प्रतीतत्त्वात्प्रमाणं फलमेव सत् / 2. स्वसंवेदनफलम् अथवा स्वसम्वित्तिः फलञ्चात्र। उभयाभासस्य विज्ञानस्य स्वसंवेदनमेव फलं। नन्वर्थसम्वेदनं फलमर्थार्थी लोक इति। अत्रोच्यते। लोकस्यार्थाथिताऽयुक्ता यदानार्थस्य वेदनं / न जातु चिददृष्टेर्थे लोकस्यार्थित्वसम्भवः // 625 / / श्रुतो हि परम्परया दृष्ट एव / 9. विज्ञप्तिमात्रता (1) अर्थसंवेदनचिन्ता (क) अर्थसंविद्ननु नीलादिरर्थः सम्वेद्यत एव। कथमसम्विदर्थस्य। अत्र पर्यनुयोगः। कार्थ संम्विः यदेवेदं प्रत्यक्ष प्रतिवेदनम् / तदर्थवेदनं केन,ताद्रूप्याद् व्यभिचारि तत् // 321 // यदि प्रतिनियतम्वेदन प्रतिविदितम्वा तदा साकारज्ञानमेवार्थवेदनमिति व्यपदेशमात्रमे केवलं। नत्वर्थस्य वेदनं सिध्यति / अथ ताद्रूप्यादेवार्थस्य वेदनन्तयाभूतमर्थमन्तरेण तादूप्यस्याभावात् / न। व्यभिचारात् केशमशकादिषु / / अथ सोनुमवः क्वास्य तदेवेदं विचार्यते। यद्यर्यसम्बन्धो नास्ति तदा कोसावनुभवः, अनुभूयमाननिष्ठत्वादनुभवस्य / कथं . केशाद्यनुभवस्तैमिरिकस्य / ननु कश्चिदर्थनिष्ठ एव दृश्यते। तदेवेदम्बिचार्यते। दृश्यतामर्थस्यति च न दृश्यते। अर्थस्यादर्शनात् (1) यदि चोदयमात्रादर्थसम्वेदनं चक्षुषोपि वेदनं तदिति प्राप्तं तत उत्पत्तेः२ (0)म तथैवानुमानात्कार्यदर्शनादनुमीयतेर्थस्तथा चक्षुरपितद्वेदनं तदेव तदाकारं कल्प्यतां / बहिर्देशा * B. टि-प्रतिनियतं वेदनं प्रतिविदितम्वा वेदनं विदितयोर्मध्यपदलोपाः / * B. टि-अनेनास्माकं मतेऽर्थस्यज्ञानं नास्ति भिन्नाकाराज्ञानादर्थानुमाना। B. टि-तथा कार्यात् चक्षुरपि कारणमनुमीयते यस्याकारः तस्य कारणस्यानुमान- मिति चेत् चक्षुरपि नीलाकारं क...। - ( -

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102