Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 66
________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् 401 __न खलु तिमिरतिरस्कृतदर्शनानां मशकमक्षिकादयो दर्शनान्तरबलादुपजायन्तेऽपित्वान्तरादेव तिमिरकारणात् / __ ननु तिमिरादप्युपजायमानं वस्तुबलादेव न भावनाबलात् / आन्तरकारणवमात्रन्तु विवक्षितं / सर्वस्यापि त्वान्तरं कारणं वासनैव / स्वप्नादिप्रत्ययवत् (1) सा वासना यथा कथञ्चित्प्रबोधवती स्वानुरूपप्रत्ययप्रसवहेतुः। तत्र च पूर्वपूर्वमेव दर्शन साधर्म्यदर्शनं / आदौ कि दृष्टं येनेयं भ्रान्तिः / दर्शने कथं तस्य दर्शनमिति वक्तव्यम् / ततस्तु समानत्वा / दभ्रान्तिरेव सकला। अथान्यया दर्शनं कथं सकला भ्रान्तिः-- साधर्म्यदर्शनादिति। न / भ्रान्तिपरम्परवेयं / नातिरस्तीति प्रतिपादितं (1) तस्मादनादिरयमसद्वासनापरिकल्प: संसारः / कथं प्रमाणादिव्यवस्था स्वात्मनीति चेत् / अत्रोच्यते / तत्र बुद्धपरिच्छेदो ग्रहकाकारसम्मतः / तादात्म्यादात्मवित्तस्य स तस्या साधनं मतं // 364 // तदेव साध्यं तदेव साधनं सैव सिद्धिः / तत्रात्मविषये माने यथा रागादिवेदनम् / _ इयं सर्वत्र संयोज्या मेयमानफलस्थितिः // 365 // Dato K&007 अर्थादयो हि भावनाबशादुपजायमानाः स्वसम्वेदनरूपा इति प्रतिपादितं (1) सुखादि सम्वेदनञ्च प्रत्यक्ष प्रमाणं (1) तत्राव्यतिरिक्त (1) एव प्रमाणप्रमेयप्रमितिव्यवस्था / यदुच्यते ' "चतसृषु चैवम्विधासु तत्त्वं परिसमाप्यते (-) प्रमाता प्रमेयं प्रमाणं प्रमितिरिति"२ (1) तदसत् (0) एकत्रैव सर्वपरिसमाप्तेः / ननु सुखादौ यदि नामाव्यतिरेकः / पीतादौ व्यतिरेक इति चेत् / न / इयमेव सर्वत्र योज्या मेयमानफलस्थितिः। -01 सलायथा अर्थाविसम्वेदने तथा नीलादिसम्वेदनेपि / नीलाकारं अर्थाकारमिति वा भवतु कोऽनयोविशेषः / द्वयोरपि स्वरूपेण वेदनात् / ततो नीलसुखशरीरवेदनं स्वरूपेणव सकलं न x पररूपेण / स्वरूपेण चेत् सव्वं/स्वसम्वेदनमेव / ननु नीलादिसम्वेदनेनात्मभूतो प्राहकाकारः सुखादिवत्तत्कथं ते दृष्टान्तः / सुखादीनां कथं स्वप्रकाशात्मकत्वात् आत्मवत् / केयं प्रकाशात्मता नाम। अपरोक्षरूपता/यविं तंत्राप्यनुभवात्मत्वात्तै योग्या (6) स्वात्मसंविदि / इति सा योग्यता मानमात्मा मेयः फलं स्ववित् // 366 // प्राहकाकारसंख्याता परिच्छेदात्मतात्मनि / सा योग्यतेति च प्रोक्तं प्रमाण स्वात्मवेदनं // 367 // 1 ततः इति हे. पुस्तके / 2 वात्स्यायनीये न्यायभाष्ये 11111 (पृष्ठे 1) स्वल्पभेदेन / / अयं पाठो हे. पुस्तके विद्यते परमत्र मूलं व्याख्या च न दृश्यते इति चिन्त्यमेतत् / -

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102