Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 68
________________ Hit अर्थसंवेदनचिन्ता ] प्रत्यक्षम् 403 नहि यत एवोत्पद्यते तदाकारमेव भवति / तथा हि / यथैवाहारकालादेर्हेतुत्वेऽपत्त्यजन्मनि / पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् // 266 // . नहि पित्रोद्वयोरपि समानाकारतां धत्ते / तत उत्पद्यमानः स्वतः। अपि तु कस्यचि- / देव। तस्मादर्थादेवार्थाकारमिति / तथाहि। दूरदेशस्थितादृक्षात्तदाकारं हि जायते / विज्ञानं नेन्द्रियाकारमिति दृष्टमिदं सदा // 1028 / / 'तद्धतुत्वेन तुल्येपि तदन्यविषये मतम् / - xfeteace विषयत्त्वं तदंशेन तदभावे न तद्भवेत् // 170 // . .... ___ न हेतुतया विषयोऽपि तु तदाकारविज्ञानहेतुतया। हेतुतया विषयत्वे चक्षुरादीनामपि विषयत्वं / तदाकारतया मरीचिकादिजलज्ञानस्यान्यदेश जलमपि भवेत् विषयान नह्याकारमन्तरेण बोधरूपं विज्ञानं सम्वेद्यमानमन्यथा वा तदाकारविषयव्यवस्थापने समर्थ प्रतीतेतरावस्थयोरयोगादिति प्रतिपादितम् / यदि तत्प्रतीयते किमपरेण व्यर्थकत्वात् / अथ न प्रतीयते तदापि अशक्तेरिति। न ह्यप्रतीयमानं प्रतीतिविषयः। प्रतीयमानञ्चेत्सव तस्य तद्रूपताप्रतीतिः। व्यतिरिक्ता च क्रिया न युक्तति शतशः प्रतिपादितम् / ननु चाकारः प्रमाणं स्वसम्वेदनं फलमिति साकारसिद्धौ स्यात् (1) तदेव तु कथं सिध्यति। उक्तमत्र। अपि च / विषयज्ञानतज्ज्ञानविशेषाद् बुद्धिरूपता। 3 विषये रूपादौ यज्ज्ञानन्तदर्थस्वाभासं, विषयज्ञाने तु यज्ज्ञानं तदर्थानुरूपज्ञानाभासं स्वाभासञ्चा अन्यथा यदि विषयज्ञानमर्याकारमेव स्यात् * स्वाकारमेव वा विषयज्ञानमपि तदविशिष्टं स्यात् / विषये यत् ज्ञानं तदर्थस्वाभासमिति साध्यं / उत्तरो हेतुः / अन्यथेत्यादि बाधकं प्रमाणम् / कीदृशं मम ज्ञानमासीविति यदा पर्यालोचयति तदाऽर्थप्रतिभासमेव स्मरणेन व्यवहरति नान्यथा। यश्च यथा मोक्षेण विषयीक्रियते तथा भवति यथा गौरित्यधिमोक्षेण विषयोक्रियमाणः शावलेयः। तथाहि / पि एवम्भूतोऽवभासो न ज्ञानेऽर्थस्तु कीदृशः / इत्यर्थस्य परित्यागाज्ज्ञानस्यार्थाविनिश्चयः // 1029 // ___यदि केनचिनियुज्यते कथमसावर्थ इति भवता ज्ञातं तवाऽर्थप्रतिभासस्तादृशोऽर्थस्तु-६ त्रास्ति न वा, तादृशोऽन्यथा वेति न निश्चय इति प्रत्युत्तरयति। ततोर्थपरित्यागी प्रतिभास एव ज्ञानं। एकत्वे त्वर्थस्य तत्रैव निश्चयः तत्रैवानिश्चय इति कथं / निश्चयानिश्चययो. विरोधात्। अर्थ प्रतिभासे निश्चयः, नावान्तरभेद इति/तत एवंभूतः प्रतिभास - इत्येतावत्तत्र प्रतिभासितापरन्तु नेत्यर्थ एव स निश्चयोऽनिश्चयश्च भागद्वयभावादिति / तदेतदुत्तरत्र वक्ष्यते। अपि च / कारARon. अनर्था'कारशंका स्यादप्यर्थवति चेतसि / ___ अतीतार्थप्रहे,सिद्ध द्विरूपत्वात्म वेदने // 371 // य आह / न ज्ञानं प्रतिभासते स्वसम्बेश्नाभावात् / नापि स्मर्यतेऽअर्थस्यैव सर्वत्र ' अनाकार-इति हे. पुस्तके / ..2 विरूपत्वात्म-इति हे. पुस्तके / A स्थामास

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102