Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ [ 33333 372 प्रमाणवात्तिक-भाष्यम् __ निरालम्बनाः प्रत्यया इति / / तदेतदलीककल्पनामलमलीमसञ्चेतः परेणाहकारमाविकृतमिति महती मोहस्य महीयस्ता / तथा हि (1) निरालम्बनशब्दस्य स्वाङशालम्बाभिधेयता / प्रसिद्धा चेत्प्रमाणेन दूषणं दूषणं कथम् // 677 // परपरिकल्पितयोसंग्राहालम्बननिषेधेन स्वांशालम्बन एवायं शब्दः प्रयुक्त इति प्रकरणादितः प्रतीतिः। अन्यथा शब्दादर्थप्रतीत्यभावात्। तत्र शब्दादयमर्थः प्रतीयते लोके कथमस्य निरूपणमशक्यं / ननु न तस्यापि वाचकाद्वाच्यान्तराच्च भेद इति कथं शब्दार्थमात्रस्य धमित्वमित्युक्तं / सत्यमुक्तमयुक्तन्तूक्तमिति किन्तेन / नेदमिदानीमेवाद्वैतमायातं यतो' भेदो न यादपि तु भिन्नाएव प्रत्ययान्तरेभ्यः परस्परञ्च। तत्र टशब्दादन्यः प्रत्ययोऽन्यश्च घंटा शब्दादित्यादि / शब्दाश्च गृहीतमेवार्थ प्राक् स्मरणविषयतामुपनयन्ति। तत्र ये ते प्रत्यया नीलाद्यालम्बनत्वेन भवतः प्रतीतिगोचरास्ते निरालम्बना इति परमवबोधयतः किमयुक्तं / यदि कश्चिदग्निकमेव धमं प्रत्येति स किमेवं न वक्तव्यः त्वयाऽनग्नित्वेन यः प्रतीयते धमः स तथा न भवतीति / कुतो वा दोषसम्भावना वक्तुः / / अथ साग्नित्त्वेन पूर्वदृष्टेन स बोधयितुं शक्य इह तु कथं / इहापि निरालम्बनं तैमि (रि) कज्ञानं सिद्धमेव बाह्यस्यासम्भवात् / / तत्रापि गगनमालम्बनमिति चेत् / / यथा तर्हि केशालम्बने गगनमालम्बनं तथा गगनालम्बनेपि अन्यदेव / प्रतिभासमानस्यालम्बनत्त्वाभावात् / / प्रतिभासमानमेव गगनप्रत्यये आलम्बनमिति चेत् / / इहाप्यस्तु केशप्रत्यये सर्वत्र विपरीतख्यातिस्मृतिसंप्रमोषधालौकिवादिकल्पना न वा क्वचिदिति एकान्त एकी। विk ___ अथ सालम्बनमेकचन्द्रज्ञानमुपलब्धवतो विचन्द्रविज्ञानं निरालम्बनमिति युक्तं। एकचन्द्रविज्ञानन्तु कथं / तदपि तज्जातीयत्वादिति प्रतिपादितं / बाधितत्वादिति चेत् / तत्रापि बाषितत्वमिति प्रतिपादितम् / न चाप्रतिभासमानमालम्बनमिति प्रतिपादयिष्यामः / ज्ञानत्वञ्च नीलावेः प्रतिपादयिष्यते। यथा च केशादिज्ञान काशादिनासालम्बनं तथा नीलरूपं ज्ञानं पीतमधुराविना सालम्बनमिति प्राप्तं / करसाधनालम्बनत्वेन सिद्धसाधनं रूपज्ञानस्य / अथ रश्मितप्तोषरमन्तरेण न भवति जलज्ञानं रसादिकमन्तरेणापि किम्भवति रूपविज्ञानं / / भवति •च सत्यजले तप्तोषरमन्तरेणापि जलज्ञानं / विशेषस्तत्रेति चेत् / / परस्परस्य विशेषाद् वयमप्यनालम्बनमन्यथा वेति प्राप्त। भवतु द्वयमपि सालम्बनमिति चेत्। यदि प्रतिभासमानेन रश्मितप्तोषरमित्यादि न वक्तव्यम् / अप्रतिभासमानमालम्बनं कार (ण)त्त्वेनेति' चेत् / वासना भविष्यतीति सिद्धमस्मत्समीहितं / / प्रतिभासमानमेव तहि भवतु किमन्यनेति चेत् / / प्रत्यक्षानुमानयोर्भेदाभावप्रसङ्गात् प्रतिभासमाने सकलं प्रत्यक्षमेव / भ्रान्ताभ्रान्तविभागश्च न स्याल्लोकप्रसिद्धिभाक् / स्वरूपे सर्वमभ्रान्तं पररूपे विपर्ययः / / 778 // प्राप्तेः सालम्बनत्वञ्चेत् प्राप्ति स्तीति साधितं। ___ मरीचिकाजलभ्रान्तेः प्राप्तिः स्यादपि तद् भवेत् // 779 / / ' T. यतो भेदो न स्यात् / 2 B टि०-सालम्बनत्वं B टि०-कारणत्वेनानालम्बनमप्रतिभासनम् /

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102