Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 373 सर्वदा नास्ति सर्वत्र सर्वदा नेति' दृश्यते / क्षणिकत्वात् अविनष्ट भवेदेव विनाशी स कथम्भवेत् // 780 // प्रत्यभिज्ञानिरस्तव ततः सर्वं समंजसम् / तत्मात्प्रत्यक्षानुमानाभ्यां प्रतीतेः सकलमनालम्बनं। उक्तः शेषः / एवं परपरिकल्पितं विशेषणमनूद्य यदि तन्निराक्रियते क इवात्र दोषः। अनेनेदमपि निराकृतं। यदाह / तथा हि () बहिर्भावाप्रसिद्धत्वात्तेनानालम्बना मतिः / कथञ्च साध्यते नैष पक्षो हि ज्ञायते यदा // 781 // यथान्यबोधनाशक्ते प्रसिद्ध विशेषणे / पक्षसिद्धिस्तथैव स्याद्विशेषणविशेषणे // 782 // नाप्रसिद्ध पदार्थे हि वाक्यार्थः संप्रतीयते / तत्पूर्वकत्त्वात्पक्षश्च वाक्यार्थः स्थापयिष्यते // 783 // मत्वर्थस्य साध्यत्वमिति स्थापयिष्यत इति / तदेतवसदेव। येनैव बाह्यमालम्बनमसिद्ध परमार्थतः / , परेण केवलमभ्युपगतं / तत एव निषिध्यते। भ्रान्तिनिरासाय साधनप्रवृत्तेरित्येतत्पश्चात्प्रतिपादयिष्यते। प्रमाणप्रसिद्धस्य तु कथमभावः साध्यः स्यात् / / प्रमाणस्य बाधनद्वारेणेति चेत् / न। प्रमाणस्य प्रमाणेन बाधनायामनाश्वासेन प्रमाणतोच्छेदप्रसङ्गात् / न विरुद्धाव्यभिचारी नाम सम्भवतीति प्रतिपादयिष्यामः। देशकालादौ दृष्टस्यान्यत्र निषेध इति चेत्। नागभावात्। भाज नहि देशान्तरादौ यदृष्टमन्यत्र कल्प्यते / भ्रान्त्यभावेन तत्रास्य वृथाभावस्य साधनं // 784 // अथ कुतश्चिच्छास्त्रादन्यतो वा प्रमाणाभावादन्यत्र कल्पना। नहि भ्रान्तयो न दृश्यन्ते। एवन्तहि / प्रमाणदृष्टे या भ्रान्तिर्देशादौ क्वचिदेव सा / निवर्त्यते प्रमाणेन भ्रान्तावेव तु काऽक्षमा // 785 / / या हि कदाचिद् भ्रान्तिः सा निवर्त्यते। या तु पुनरत्यन्तं सा किन्न निवर्तयितव्या। तन्निवर्त्तने महान् पुरुषकारः। ननु साऽन्यत्र बाधकप्रमाणोपदर्शनेन निवर्त्यते / या तु सदा भ्रान्तिरेव सा कथनिवर्तयितव्या / बाघकाभावाच्च कथं सा भ्रान्तिरित्युच्यते। तदप्यसत् / यतो बाधको नाम नास्त्येव / तथा हि / बाधकः किन्तदुच्छेदी किम्वा ग्राह्यस्य हानिकृत् / ग्राह्याभावे ज्ञापको वा त्रयः पक्षाः परः कुतः / / 786 / / 17 यदि बाधको बाध्यप्रत्ययाभावं करोति तदालमास्य वा। तदा तज्जातमजातं वा / अजातस्य कथन्तेन तस्याभावो विधीयतां / न जातु खुरशृङ्गस्य ध्वंस: केनचिदाहितः // 787 // ( जातस्यापि न भावस्य तथाभावो विधीयते। तदस्तिहेतोः तन्नास्ति बाधकादिति साहसम् // 788 / / टि-नष्टत्वात् / 2 श्लोकवार्तिके 230-231 पृ० 3 श्लोकवार्तिके 230-231 पृ० . दा

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102