Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 46
________________ अर्थसंवेदन-चिन्ता - प्रत्यक्ष प्रवर्तते जनः सर्वस्तत्र यत्रास्ति तत्त्वधीः। रागाच्छोभनबुद्धया किं विरूपायांन वर्तनं / / 879 // तस्मादतत्त्वेपि नृणां तत्त्वबुद्धया प्रवर्तनं / तस्य तस्योपदेशः किं न कृत्त्वा गजनिमीलनं // 880 // , अनेन तत्रानुष्ठानमविरोधीति साधितम् / तदभिप्रायसूत्रान्त कथितः का विरोधिता // 881 // अतत्त्ववित्प्रतीत्या च बाधने सिद्धसाधनम् / सर्वानालम्बनत्वस्य तं प्रत्यनुपदेशनम् // 882 / / कृत्स्नसाधनबुद्धिश्च तस्यानालम्बनाद्विना / यदा तु बोध्यते तत्त्वं सर्वाभावेप्यदुष्टता / / 883 / / इष्ट एव तदाऽभावः सर्वस्यालम्बनात्मनः। तत्साधनमनालम्बं ततस्तच्चेन्न सिध्यति / / 884 // अविसम्वादिता तेन साध्यानालम्बनास्तिता / तस्य साधर्म्यदृष्टत्वात्तेनानेकान्तता कुतः / / 885 / / * तदन्यस्य प्रतिज्ञानं सत्यवमुपगम्यते / तदन्यप्रत्ययस्यापि न मिथ्यात्वञ्च नेष्यते // 886 / / तन्मिथ्यापूर्वको दोषः कथमिष्टाप्रसिद्धितः / तदन्यस्य प्रतिज्ञायामनवस्था न विद्यते // 887 // यत्र समाभिमानोस्ति तदनालंबनं मतं (1) निरालम्बनतान्यवसम्वादेपि निरूपिता // 888 // : प्रतिसाधनमित्थञ्च कथं शक्यनिदर्शनम् / बाघकापेतबुद्धित्त्वमसिद्धमिति साधितम् / / 889 / / स्वप्नादिबाधधीः सत्यानुपलम्भेन साधिता। तदुत्थितानुमानस्य बाधकत्त्वादसिद्धता // 890 // बाधकापेतबुद्धिन हेतोः सालम्बसाधने / क्षणिकत्त्वादिबुद्धया यदनकान्तिकचोदनम् // 891 // तदयुक्तं यतो ज्ञानं क्षणिकं बाह्यवजितं / विज्ञानरूपक्षणिकत्त्वसिध्या साल (म्बनासौ क्षणिकत्वबुद्धिः / ' ततोऽनिरालम्बनता सबाहा न सिध्यतीत्यर्थतया हि पक्षः / / 892 // बाह्यालम्बनाः प्रत्यया न भवन्ति स्वप्नबुद्धिवत् / इति विशिष्य पक्षः कृतः / क्षणिकस्वादि बुद्धघानेकान्त इति चेत् / न, क्षणिकत्त्वं योगा चार वर्शने विज्ञानात्मभूतमेव साध्य / ततो विज्ञानात्मसालम्बनता वृष्टान्तेन तथाभूत सालम्बनतवकोतवेत्। अथ व्यतिरिक्तमाल-: म्बनं तावत्सिद्धं / न व्यतिरिक्तालम्बना क्षणिकत्त्वबुद्धिः। तथा हि। .. प्रत्यक्षमनुमानम्वा क्षणिकत्त्वादिवेदन (0). नानुमानं तदन्येन सालम्बनतया स्थितं / / 893 / / अविसम्वादितामात्रान्न सालम्बनता विदाम् / . ........ . अविसम्बादो हि योनुमानेन स प्रत्ययान्तरेण व्यवहितः। ततः प्रत्ययान्तरं तथाभूतमुत्पादयदनुमान प्रमाणम् / न स्वाकारमात्रग्रहणात् / प्रत्ययान्तरञ्च प्रत्यक्षमेव / साक्षा-/ करणे हि वस्तुग्रहणाभिमानः। तच्च साक्षात्करणं ज्ञानरूपस्य क्षणिकस्य स्वरूप सम्वेदनेनैव। न तदात्मभूतं तदन्यसम्बेदनेन ग्रहीतुं शक्यम् / अथ स एव स्वसम्वेदनपक्षो न सिष्यति प्रतिप्रमाणे सति। तद्रूपे वेद्यमाने हि यदान्यन्न प्रवेद्यते / तदा स्वरूपसम्वित्ति को वारयितुमर्हति // 894 // अवेदनेन वित्तिश्चेत्कि न सर्वेण वेदनं / तथा न दृष्टमिति चेदन्यथापि किमीक्ष्यते // 895 // अर्थापत्तेः क्षयादेवं यथा दृष्टन्तथेष्यतां / आत्मानुभविता दृष्टस्तस्य दृष्टिः कुतो मता // 896 / / स्ववेदनेन चेदेतन्नीलादावपि नाधिकम् / आत्मनो द्रव्यता व साकका यदि मीयते // 897 // नीलादेरपि नीलत्वत्तिवेदनतो न किम् / विख्या यथैवात्मनो द्रव्यरूपतान्या सम्वित्या वेद्यते तथा नीलादेरपि किन्नाभ्युपगम्यते / भीलस्यापि स्वबोषरूपताऽन्या द्रव्यरूपतान्या भविष्यति। आत्मवत्स्वबोधरूपा नीलाबयोपि। - n: -- -- : : : .. T HICATTER

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102