Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 61
________________ 396 प्रमाणवात्तिक-भाष्यम् [ 3 / 353 इति प्रतिपादितम् (1) प्राप्तिरिति चेत् / तदपि दर्शनमेव / अनेन दर्शनादि व्याख्यातम् / यथैव प्रथमं ज्ञानं तस्य प्राप्तिमपेक्षते / तत्प्राप्त्यापि पुनः प्राप्तिरपेक्ष्यत्यनवस्थितिः // 975 / / कस्यचितु यदीष्यत स्वत एवाप्तिरूपता। प्रथमस्यापि तद्भाव इति सर्वसमानता / / 976 / / प्राप्तेरथापि पूर्वेण प्राप्तिरूपेण सत्यता / अन्योन्याश्रयमित्येका सेत्त्य) नोभयस्य तत् / / 977 / / अथकारणशुद्धत्वात्तु ज्ञानस्यादित सत्त्यता / तज्ज्ञानस्यापि सत्त्यत्त्वं तत्कारणविशुद्धितः / / 978 / / एवं परंपरापेक्षादनवस्था प्रसज्यते / वासना पलभावित्वं मृगतृष्णाजलेस्थितम् / / 979 / / ततःसकलमेवन्तदिति कल्थ्यमनाकुलं / अनादिवासनासङ्गप्रतिबद्धप्रवृत्तयः // 980 / / यस्य नीलादयस्तस्य न दोपो नाम दृश्यते / ननु वासनाप्रतिबन्धोपि स्वसम्वेदनज्ञानात्मनि कथं / स्वरूपात्प्रतिवद्धश्चेदपरः केन गृह्यते / स्वरूपमेव स यदि नाममात्रं कृतम्भवेत् / / 981 / / यदि स्वरूपव्यतिरिच्यमानात्मा प्रतिबन्धो यत्र च स तदा पृथग्भूतग्रहणेन स्वसम्वेदनं / न चेत्पृथग्भावः सम्बन्धसम्बन्धिनावेव हि न स्त इति न सम्बन्धग्रहणसम्भवः / / तदप्यसत् / यतः / / वासनाप्रतिबन्धोयं सुखेनैव प्रतीयते / स्मरणं पूर्व विज्ञान प्रतिबद्धं प्रतीयते // 982 / / __ स्मरणमुपजायमानमेवात्मनोऽनुभवप्रतिबन्धं प्रतिपादयति तदव्यवसायवशादेवमुच्यते / अस्मरणे हि कथं वासनाप्रतिबद्धत्वप्रतीतिः। तथाहि / दृष्टमेतन्मयेत्येवं स्मरणं वेदने सति / न त्वस्मरणमात्माने निवेदयति कस्यचित् // 983 / / स्मरन्नेव दृष्टमेतदिति निरूपयत्यन्यथा दृष्टत्वस्य निरूपयितुमशक्यत्वात् / अस्मरणसम्वेदने तु न दर्शनानुसारित्वप्रतीतिः ततस्तद्वासनाप्रतिबद्धमिति कथं प्रतीतिः तित्रापि दृष्टमिति प्रतीतेः। स्मरणेन सहकीकृत्य तस्यापि प्रतोतेरन्यथा व्यवहारायोगात् / स्मर्यमाणदृश्य मानयोरेकतया प्रतीतिः। ततः सकलं वासनाप्रतिबद्धमेव / / अथ स्मर्यमाणदृश्यमानयोरेकताप्रतिपत्तिन्तिा / / न। बाधकाभावात् / ता . एतदेव स्मरामीति पूर्वदर्शनमंत्र मे। न च बाधकमत्रास्ति तक स्मृत्या सहैकता / / 984 // ___ अथ स्मरणाकारेण पूर्वरूपन्न गृह्यते / / तथा सति पूर्वपरयोः कथम्भेदप्रतीतिरतोऽद्वैतमेव / तथासति सुतरां सम्वेदनात्मता / अपि च / बाह्यवस्तुनि कार्यकारणभावनियमस्य कर्तुमशक्यत्त्वात् तथाहि / बाह्यस्यादर्शनात्पूर्वं कथम्बिज्ञानकार्यता (1) विज्ञानस्य तु दृष्टत्वाद्युक्ता विज्ञानकार्यता // 985 // तथा (1) देशकालाद्यवस्थातस्तत्कार्यस्यान्ययोदयात् / कार्यकारणभावस्य नियमो नोपपत्तिमान् / / 986 // सम्वेदनपक्षे तु सम्वेदनं पूर्व सम्वेदनादेवोपजायते / यद्यपि नामाग्निमन्तरेण भवति धूमस्तथापि धूमवासनातो भाव इति नाहेतुको जनप्रतिभासश्च / मशकवत्तिमृगतृष्णकाधमजलवत् / / बाह्यमेव वासनाबलाद् भवतीति चेत् / इष्यत एवैतद्वाह्यवासनाबलायातत्वाभाममात्रमेव कृतं स्यात्तच्च लोकेनैव कस्तवात्र पुरुषकारः /

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102