Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 398 प्रमाणवात्तिक-भाष्यम् - [ 3355 जानाति / / तथा सतीतरेतराश्रयदोषः। कार्यदर्शनभावादिति चेत् ।नैकत्वप्रतिपत्त्यप्रसङगात् / नहि धूमादग्निीयमानो महानसस्थ एव ज्ञायते / अन्यत्वाद् धूमस्येति चेत् / रोमाञ्चादिकार्यस्यान्यत्त्वादपरः परस्य ग्राह्याकारः। किञ्च / सम्वेदनाद्रोमाञ्चादयो नार्थात्। दर्शनयोश्च न दर्शनेन मिश्रीभावप्रतिपत्तिरन्यथा नानुमानमपेक्ष्येत / नहि प्रत्यक्षेऽनुमानं प्रवर्तते / ननु रूपमेव प्रत्यक्ष परदृश्यता तु तत्राप्रत्यक्षा ततोऽनुमानमिति चेत् / ननु परदृश्यता तत्रास्तीत्यत्रापि नैव प्रमाणम् / अत्र एव संदेह इति चेत् / एवन्तहि पीतरूपतापि नीलरूपतया दृश्यमाने किन्न सन्देहविषयः। पश्चादुपलप्स्यमानेग्नौ वह्निरूपतास्तीति कुतः / पञ्चादुपलम्भादेव / अत्र तु परदृश्यतायां पश्चादपि नोपलम्भः (1) ननु परदृश्यमानताऽनवगमे व्यवहार एव नास्ति (1) न(1) सादृश्यमात्रेण व्यवहारप्रसिद्धः / एकत्वमन्तरेण तु व्यवहारो नेत्येतत्कुतः / . ननु यद्यनुमानं प्रवर्तते परोक्षे एकत्वेपि प्रवर्तते न चेत्सदृशेपि कथम् / सत्यमेतत्सदृशेपि कुतोऽनुमानं / केवलं दृश्यविकल्प्याथैकीकरणमात्रेण व्यवहारमात्रमतत् / परमार्थतस्तु स्वरूपमात्रालम्बनमेवानुमानम् / परोक्षविषयता कथमिति चेत् / न / ज्ञानं परोक्षविषयं कथमस्तु युक्तं, तत्रावभाति यदि कैव परोक्षता यो। "त्र मुक्त्वावभासनमथापि परोक्षतार्थस्तेन प्रतीतिरिति वाग्विधिरेष शुद्धः // 1001 // ततः सम्वादनात्तस्य प्रतीतिरिति चेन्मतम् / प्राप्तिरस्तीति तत्तत्र प्राप्तिकाले सदुच्यताम् // 1002 / / पूर्वन्तु तस्य सद्भावः केन मानेन गम्यताम् / तद्भावेन विना सैव प्रतिपन्नम्भवेत्तदा // 1003|| भाविवस्त्वनुमाभावे कथमस्ति प्रतीतता। सर्वत्र भाविपत्य प्रतीतिरिति निश्चयः // 1004 // द्वयोरपि प्रतीतिश्चेद्वर्त्तमानभविष्यतोः / एकरूपप्रतीतत्वं कथम्भाविभविष्यतोः // 1005 / / तस्मान्न परमार्थेन प्रतीतिरनुमानतः। परोक्षश्चेद् घटो नास्ति कथं पश्चात्प्रतीयते // 1006 // तदैवोदययोगश्चेत्कथं स्यात्कारणम्विना / दृष्टत्वादेवमेवेति कोत्रं पर्यनुयोगभाक् // 1007 // दुष्टत्वापूर्वसद्भावः कस्मादस्य न कल्प्यते / न तथा दृश्यते तेन न तथा परिकल्प्यते // 1008 / / तथापि परिदृश्यस्य नानुमानन्तथैव तत् / अस्तीति ज्ञायतां केन परेणेत्यसदुत्तरं // 1009 // यतः (1) परोपि परविज्ञातमिति नैवावगच्छति / अनुमानेन तस्यापि ज्ञातावन्योन्यसंश्रयः / / 1010 // . परसाधारणास्तित्त्वे ज्ञातेस्तीति तदुच्यते / तदस्तित्वेनुमानस्य प्रतिबन्धात्प्रमाणता // 1051 / / तस्मात्प्रत्यक्षतोस्तित्वे ज्ञाते तत्रानुमा भवेत् / अनुमानेन चास्तित्वे ज्ञाते ध्यक्षस्य तद्ग्रहः।।१०१२॥ अन्योन्यसंश्रयादेवमेकस्यापि न सम्भवः / अन्योन्यसंश्रयं किञ्चिदन्यत्रापि न दृश्यते / / 1013 / / तस्मादनादितथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य . बहिरर्थकल्पनायां प्राह्यग्राहकसम्वेदनकल्पनाप्रवृत्तः ग्राह्यादिकल्पना परमार्थतः सम्वेदनमेवाविभागमिति स्थितं / कुत एष भवतः प्रबोध इति चेत् / मन्त्राद्युपकृतदर्शनानां मृच्छकलादीनां तद्रूपरहितानामपि सप्त दिरूपेण प्रतिभासनात् / ते हि परैरदृश्यमपि दृश्यतया व्यवहरन्ति / यावदेषामव्युत्पत्तिः।। यदि तु यत्स्वरूपं यत्तथैव तत्प्रत्यक्षतो वेद्यते न व्युत्पत्तिमपेक्षेरन् / प्रत्यक्षमपि व्युत्पत्तिम.

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102