Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 60
________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् 395 स्वसंवेदनं फलम्() उक्तं स्वभावचिन्तायां तादात्म्यादर्थसम्विदः // 351 // ... परमार्थापेक्षया स्वसम्वेदनमेतदर्थसम्वेदनमपि / यदि नाम तदर्थसम्वेदनमनिरूपितसम्वेदनस्वरूपस्य निरूपणायान्तु स्वसम्वेदनमेव / ननु यदि स्वरूपेणार्थस्यानवभासनं ज्ञानमेव स्वेन रूपेण प्रतिभाति कथमर्थस्य प्रमेयता। तादृशत्वादर्थस्येति चेत् / तादृश इति कथं ज्ञायते / नानाकारा हि विज्ञप्तय इति चोक्तं / अत्रोच्यते / तथावभासमानस्य तादृशोन्यादृशोपि वा / ज्ञानस्य हेतुरर्थोपीत्यर्थस्येष्टा प्रमेयता // 352 // यद्यपि जलावभासि विज्ञानमुपजायते जलमन्तरेणैव तथापि मरीचिकाः समाश्रित्योदयवतः कथञ्चिदर्थहेतुतामाश्रित्यार्थालम्बनमुच्यते / ननु यदि हेतुत्वादेवालम्बनता वासनाहेतुकमेव युक्तं / न हि सा न हे तुः। दृष्टशक्तिश्च वासना तदाकारजनने / तथा च प्रतिपादितं भवतैव / यदि तु तदाकारता तथा . भूतार्थमन्तरेण न भवेत् * युक्तमर्थसम्वेदनं / अन्यथा तु। अनि यथाकथञ्चित्तस्यार्थरूपं युक्तयावरभासिनः / अर्थग्रहः कथं; सत्त्यं न जानेहमपीदृशम् // 353 // सन्निहितमर्थमन्तरेणापि यदा तदाकारता तदा तस्य तावदर्थस्य न ग्रहणम् / अन्यदेशदृष्टस्य ग्रहणमिति चेत् / अन्यदेशेपि यदि तदा नास्ति कथं प्रतिभासः। यत्रास्ति' तत्र प्रतिभास इति चेत् / यदि क्वापि नास्ति क उपायः। प्रतिभासादेव ज्ञायते * अवश्यं क्वापीति प्रतिभासोऽर्थमन्तरेण न दृष्ट इति प्रतिबन्धादेवं गतिः। एवं तर्हि स न दृष्टः कथं प्रतिभाति। सोपि जन्मान्तरादौ दृष्ट एवेति चेत् / न / नियमाभावात् अदृष्टोपि प्रतिभान। इष्यते / एवन्तर्हि / अदृष्टोपि हि देशादावोऽन्यत्रावभासते / यदि सर्वस्तदा सर्वः सर्वदर्शी प्रसक्तिमान् // 974 / / अदृष्टस्यापि देशान्तरादौ व्यवस्थितस्य प्रतिभासने सर्वः सर्वदर्शी प्रसक्तः / अवस्थाविशेषमन्तरेण न प्रतिभाति / तिमिरादौ प्रतिभातीति चेत् / न। तिमिरस्य सर्वसाधारणत्वात्सर्वप्रतिभासनप्रसङगः। किञ्च / तिमिरं दर्शनविघातकृत् तदेव किन्दर्शनहेतुः५ / दर्शनहेतुत्वे सकलदर्शनप्रसङगः। यदेव दृश्यते तस्यैव जनयतीति चेत् / अविद्यमानस्यैव तर्हि दृश्यते / तदेवाविद्यमानदर्शनं जनयतु(अर्थमन्तरेण दर्शनन्न दृष्टमिति चेत् / अर्थयोग्यदेशावस्थानमन्तरेणापि न दृष्टं। अनेनैव व्यभिचार इति चेत् / समानमुभयस्यापि / स एवार्थ इति चेत् / नार्थत्वस्याभावात् / एवंभूत एवार्थ इति चेत् / सर्व एवैवंभूतः। अलौ(कि) कत्वे सर्वमलौकिकं / नहि दर्शनव्यतिरेकेणापरो. विशेष . पादव्यत्यासोऽत्र स. पुस्तके / 2 B. मुक्ताव her B.टि-"काले जन्यदेशे स्ति वस्तु तत्र काले भाति नार्थविरहिणि काले भातीति भावः" / 4 B. टि--"तिष्ठतीत्याकूतं" / 5 B टि-"अर्थस्य जनयति दर्शनं"।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102