Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ प्रमाणवार्तिक-भाष्यम् [.33333 / ननु बु द्ध स्य भगवतो बुद्धिर्योगित्वरागादिक्षयनिमित्तवती तस्य च विशेष्यबाधनाद्विरुद्धः। तथा हि / रागादिक्षययोनित्वनिमित्तादिगतस्तथा / यावान्विशेष इष्टःस्यात्सर्वबाधाद्विरुद्धता' // 948 // स्तम्भादिप्रत्ययबाधके बुद्धादिज्ञाने यावन्तो विशेषा रागादिक्षयनिमित्तत्वादयस्तेषां बाधनाद्विरुद्धतापि हेतोर्भवेत् / तथा हि मिथ्याधीप्रतियोगित्त्वं यदैव स्वप्नादिज्ञानानां साधितं / तदा ताथागतमपि ज्ञानं प्रतियोगित्वान्मिथ्याप्रसक्तम् / स्वप्नबाधकस्तम्भादिज्ञानवदेव अत्रोच्यते / यदि विशेषविरुद्धतया क्षतिर्ननु न हेतुरिहास्ति न दूषितः / / निखिलहेतुपराक्रमरोधिनी न हि न सा सकलेन विरुद्धता // 949 / / यथा स्वप्नबुद्धिमिथ्यास्तम्भादिबुद्धिप्रतियोगिनीति साध्यते तथा प्रतियोगिबुद्धिप्रतियोगित्त्वमपि बुद्धित्वात्स्वप्नबुद्धिवदेव / एवं यथा धूमोग्नि साधयति है तथा इहेदानीमग्न्यसम्भवमपि साधयतीति न हेतुरेव कश्चित्साध्यसाधनः स्यात् किं च। बुद्धित्वात्प्रतियोगित्वमात्रमेव साधयति / न विशेषप्रतियोगित्वं तथा यथा कृतकत्वमनित्त्यत्वं साधयति शब्दस्य तथाकाशगुणत्वविपर्ययमपि साधयतीति प्राप्तं / न चाकाशगुणत्वमपि शास्त्राङगीकरणात्साध्यम् / . इष्टः सा ध्य इति वक्ष्यते / तस्मान्न विशेषविरुद्धता हेतुदूषणम् / / ननु (1) महाजनस्य चाबाधादिदानीन्तनबुद्धिवत् / वाच्योऽनुमानबाधो वा यदि वा प्रतिसाधनम् // 950 // ___महाजनबाध्यबुद्धघभावादिदानीन्तनबाधकबुद्धिवत् स्तम्भादिबुद्धिः सत्या/ विवादास्पदीभूतस्तम्भाविबुद्धिरबाध्या, तद्विषयत्वेन महाजनस्य बाधकबुध्यनुत्पादात्स्वप्नाविबाधकबुद्विवत् / / तदप्रतिरूपं / तथाहि / प्रतिबन्धविनाभूता दृष्टिमात्रप्रसाधना / इष्टा स्यात्साध्यसिद्धिश्चेत् तदेवं युक्तमुत्तरम् // 951 // न च स्वप्नबाधबुद्धिरबाध्या परमार्थतः। प्रत्यक्षस्यैव बाधकस्य दर्शनात्संवृत्यात्वबाध्यत्त्वं स्तम्भादिबुद्धरपि, न काचिन्नः क्षतिः। असत्यया (कथं)तर्हि बाधः स्वप्नादिवद्धिया। तारतम्यस्य सद्भावादिति पूर्वनिवेदितम्।।९५२॥ किञ्च। जाग्रबुद्धिर्न सत्त्यत्वाद्वाधते स्वप्नदर्शनं / तत् ज्ञेयानुपलब्धित्वात्तच्चासत्त्यस्य नास्ति किम् // 953 // प्रतिपादितमेतन्क न बाधको नाम स्वाल(म्ब)नसत्त्यतया बाघकोऽपि तु तदनु१ श्लोकवातिके (पृ० 240) क्षययोगित्व-निमित्ताधिगति-विशेष इष्टश्चेत्सर्वाभावात् इति पाठभेदेन् / 2 श्लोकवार्तिके (पृष्ठ २४०)–दिदानी वाषबुद्धिवदिति पाठान्तरेण /

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102