Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 56
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 391 प्रतिभासादभ्यासादितो वा स्वप्नादिप्रत्ययानां च कः प्रतिनियमहेतुः।। तदा जन्मान्तरादिदृष्टं बापनेव नियमहेतुरिति चेत् / न / सर्वस्य दृष्टत्वात्तत्काले चाभावात्तत्कालनियमे को हेतुः। देशादिनियतं बाह्यं प्रतिभासनियामकं / यदि तद्देशबाह्यस्याभावे स नियमः कुतः // 967 // यदि तत्र बाह्योऽर्थो न स्यात् तदा वा तत्कालदेशनियतप्रतिभासः कुतः अथ तत्कालतादिकमन्तरेणापि नियमः पूर्वार्थदर्शनात् / किमिदानीमर्थन पूर्वप्रतिभासादेव नियमसम्भवात् / तथा हि अर्थशून्योऽवभासो हि माभदित्यर्थकल्पना / पूर्वार्थादेव नियमे प्रतिभासेन किं कृतम् // 968 // इदानीमत्रार्थमन्तरेण न प्रतिभासनन्तस्य युक्तम् / प्रतिभासस्य पूर्वमेव निरुद्धत्त्वात् न तत्प्रतिभासः। न ह्यविद्यमान इहेदानी प्रतिभासत इति बाह्यार्थः कल्प्यते / यदि त्वविद्यमानोप्यर्थः पूर्वदेशकालदृष्ट इह प्रतिभाति / प्रतिभास एव पूर्वकालादिः प्रतिभासतां किमर्थकल्पनया। बाह्यार्थवादिभिरपि प्रतिभासस्याभ्युपगमात् / तथा तत्र बाह्यार्थ एव : प्रतिभातीह त्वयोगान्न प्रतिभास इति चेत् / तत्र योग इति कुतः। सम्वादादिति चेत् / ननु सम्वादोप्यपरसम्वादात्किन्न युवतः। ततः सम्वादादपरः सम्वाद इति सम्वादप्रतिभासपरम्परैव युक्ता। ननु यो हि जनित्वा प्रध्वंसते स मिथ्याप्रत्ययो यथा नेदं रजतमिति। अयन्तु स्तम्भादित्य स्वपरिनिश्चितः कथम्विपर्यस्तः।। तदसत् / -- वासनाया दृढत्वेन प्रध्वंसो नास्त्यनन्तरम् / यथा रागादिकल्पानां वासनाबलभाविनाम् // 969 // वासनाबलावलम्बन एव रागादिविकल्प तथा बाह्यरहितः। तथाप्यसो त न्टलोचनेपि झटिति विघटते। तथा स्वप्नव्याख्याप्रबन्धः कथंचिदपि न विघटते। वासनादाढर्चतः। तथाहि (1) स एव पूर्वपाठक उत्थायोत्थाय पुनः पुनः स्वप्ने व्याख्यायते / / तस्मान्न बाह्यार्थव्यपेक्षो नियमः। तथाहि। - स्वप्नदृष्टमा किञ्चिज्जाग्रतो नानुवर्तते / अवस्था तादृशी तस्य बालकस्येव मूत्रणम् // 970 // बालकस्य मूत्रावस्था स्वप्नदृष्टा जाग्नदवस्थायामप्यनुत्तिनी न तरुणाद्यवस्थायां / प्रतिपादितश्चार्थक्रियाव्यभिचारः प्रागिति न पुनः प्रपञ्चः।, मना प्रमयोगाकार पर (च) विज्ञानद्वैरुप्यम् शाहनाकार तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते / सन् स्मर्यते चोभयाकारस्यास्य संवेदनं फलं // 338 // द्विरूपमिति बोधाकारं नीलाकारञ्च व्यतिरेकस्यावेदनादेकं। अपोद्धा परिकल्पनया द्विरूपं / कुत एतत् / यस्मादेवमनु (भू) यतेस्मर्यते च / तत उभयाकारादपरस्य सम्वेदनस्याभावादर्थस्य सम्वेदनं उभयाकारस्याः फलमित्युपसंहारः। नन्वर्थसम्वेदनतया प्रतीयते कथं स्वसम्वेदन .

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102