Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ an प्रमाणवात्तिक-भाष्यम् / ता [ 327 तु दर्शनाध्यारोपयोरेकत्वाद्यवसायात् / न च दृश्यमान्पदिका व्यतिरेकेण विकल्पैत दर्शनार्थी न प्रवर्तेत / दर्शनार्थिनो नोपदिशेत् / नहि दृश्यमानतामप्रतियन् दर्शनार्थी भवति / योस्ति स प्रतीयत इति चेत् / यदि दर्शनेन सम्बन्धो न गृहीतः कथमस्तित्वमात्रप्रतिपत्तेः प्रवर्तकः / तस्माद् दृश्यमानतामेव प्रतिपद्यमानः तदर्थी नान्यथा। नहि नीलादितामनवगच्छंस्तदर्थी दृष्टः। तस्मादनुमानमन्यद्वा विकल्पकं विज्ञानं दृश्यमानताव्यतिरेकेण न नीलादितामवगच्छति। कथाह परोक्षविषयमनुमान। पूर्वस्यापरोक्षत्वस्याध्यारोपात् / कथमतस्तत्राग्निरिति प्रतिपत्तिः। अध्यारोपस्य तथाभावात्पूर्वदृष्टमरीचिकाविषयजलवत् / यत्राध्यारोप्यते स परो वह्नरिति चेत् / न(0) तस्य स्वरूपेणाप्रतिपत्तेः। तदेव तस्य रूपमिति चेत् / अपरोक्षमेव तदिति कथम्परोक्षता / स्वरूपप्रतिपत्तिरेव हि परोक्षता परेण प्रतिपत्तिरिति चेत् / सैवापरोक्षतेत्यपरिहारः। परेण प्रतिपत्तिरिति च प्रतिबन्धबलादध्यारोप एव / ततः परप्रतिपत्तिरिति मिथ्या। बाहयस्य परोक्षस्य प्रतिपत्तियुक्तापि तस्य स्वयमपि पश्चाद्दर्शनादेकत्वाध्यारोपादिदन्तत्परोक्षमासीदिति परप्रतिपत्तौ वैत्तदपि नास्ति / इयं सा परप्रतिपत्तिः। प्रगासीत्परोक्षेति / तस्मादसत्परोक्षं नाम। तस्माद्दर्शनोपाधिरहितस्याग्रहणमेव / / कथं व्यतिरेकगतिरर्थस्य / / यदि नार्थोस्ति सम्वेदनव्यतिरिक्तः कुतो नीलपीतादिप्रतिभासभेदः। चक्षुरादिकादेव केशप्रतिभासवत्। ननपघातबलात्केशादिप्रतिभासनं / उपघात इति कुतः / केशादिप्रतिभासनादिति चेत् / नीलादिप्रतिभासनादिति प्रकल्प्यताम् / नन्वेकरूपता स्यात्केशादिवदेव नानादेशेपि न नानानीलादिता यथा भ्रमति चक्षुषि भ्रमति तथा किम् नीलादिकं यदि च चक्षविज्ञानकारणमिष्यते बाह्य ततः किन्न नीलादिकम् / यथा रूपग्रहणे चक्षुः कारणम् / तथाऽवान्तरग्रहणे ततः परं। ततो बाह्यार्थसिद्धिः सम्वित्प्रतिनियमादिति / अत्रोच्यते / () कस्यचित्कञ्चिदेवान्तर्वासनायाः प्रबोधकं / ततो धियां विनियमो न बाह्यार्थव्यपेक्षया // 337 // उक्तमेतघ्न बाह्यार्थः सिध्यति प्रत्यक्षतः। कार्यव्यतिरेकात्कल्प्यते। कार्यव्यतिरेके च वरं चक्षुरेव कल्पितं। अर्थान्तरकल्पनातो वरं दृष्टमेव चक्षुरादिकं तद्विशिष्टमिति कल्पना। तदपि परोपरोधादुच्यते / वरं समनन्तरप्रत्ययस्यैव विशेषकल्पना। शरीरमपि कारणञ्चेत् / न / शरीरप्रतिभासव्यतिरेकेण तस्याभावात् / तत्प्रतिभासे सतीति चेत् / तथापि विज्ञानादेव विज्ञानं समानकालता च शरीरप्रतिभासेन सादि प्रतिभासस्येति न कारणता। तथा हि। कडया यथा रागादिकल्पना कालादिनियमः स्फुटः / प्रबोधकस्य नियमाद्विना वा तत्प्रबोधकः // 966 / / तथा नीलादिनियतप्रतिभाससमागमः / रागादयो हि प्रतिनियतदेशकालावस्थाभाविनः प्रबोधकप्रत्ययवशात् / न तु तेषामालम्बननियमो व्यभिचारात्। कान्यकुब्जा दिचिन्ताप्रतिभासिनाञ्च नियमः प्रबोधके सत्यन्यथा च / न च बाह्यस्यैव प्रबोधकत्त्वं चिन्ताप्रतिभासेनापि चिन्तान्तरवासनाप्रबोधात् / स्वसामर्थ्येन यथाभोगसम्भवे। न ह्याभोगस्य क्वचित्पक्षपातः। आभोगसमानत्वेपि कस्यचित् पटुरूपस्य मासादि

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102