Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् . 2 389 यदेव दृश्यते तदेवाभ्युपगम्यते / तथा हि प्रतिभासासागतमेव नीलमवभासते नापरं / ततः प्रतिभासव्यतिरेकेण न प्रमाणं / ततो नाभ्युपगमः / अथ प्रतिभासत्तगतन्तन्न प्रतिभासते. प्रतिभासस्यान्तरत्वान्नीलादेश्च बहिरवभासनात् / न व्यतिरिक्तस्य भावे तस्य प्रतिभासनं स्वरूपेणापरोक्षण तस्य प्रतिभासनात्। तथा हि। व्यतिरिक्तस्य सद्भावे न नीलस्यापरोक्षता / स्वरूपेणापरोक्षत्त्वान्न तस्यान्याऽपरोक्षता // 965 / / ग मंथैव हि ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात्तथा तेन समेनाकालोपि नीलादिकः / यथा च चक्षुरादिकाद् ग्राहकाकारः तथा तत्समानाकारोपि, तदन्वयव्यतिरेकलक्षणत्वात्कार्यकारणभावस्य / न पूर्वापरसद्भावोऽर्थस्य प्रमाणतोऽवसीयते। प्रत्यक्षस्य पूर्वापरयोरप्रवृत्तः। अथ पूर्वमप्यसौ नास्तीति कथं प्रतीयते। पश्चाद्वारा ग्राहकाकारोपि कस्मान्न पूर्व परिकल्प्यते बुद्धिर्वा सुखादयो वा / अथ नित्यत्त्वादात्मन एवमेवेति चेत् / अपरोक्षतापि तहि प्रागेदास्तीति किं न परिकल्प्यते // विरोधादिति चेत् / न ह्यप्रतीयमानाऽपरोक्षता युवता। अर्थस्तद्वयतिरिक्तोऽप्रतीयमानोपि युक्तः / / व्यतिरिक्त इति केन प्रतिपन्नं / / अत एव कदाचिद् भवेदिति सन्देहचोदना / / अपरोक्षतापि कस्मानवमिति चेत् / अपरोक्षत्वप्रसङगात् / नान्यस्यापरोक्षत्वान्मम परोक्षेति कल्पना स्यात् / शुक्लतादिवत् / 'शुक्लता यद्यपि एकस्य घटादेन भवति द्रव्यान्तरस्य भवत्येव / ततोऽपरोक्षताव्यतिरेकेण नापरो नीलादिः। . ननु यदा पदार्थस्य शुक्लतापति किमसावन्यत्र गच्छति / रोन पे अपरोक्षतापि नापगतान्यत्र गन्त्री। एवन्तहि तदव्यतिरेकादर्थस्यापि तदभावादभावः / / अव्यतिरेक एव न निश्चित इति चेत् / अग्नेरपि तहर्यभावेऽग्निरूपाभावो न सिद्ध एव। तद्वचतिरेकेणाग्नेरभावादिति चेत् / नाव्यतिरेकस्यासिद्धत्वात् / तद्वयतिरेकेणादर्शनादिति समान सर्वत्र तस्मादसदेवापरोक्षताव्यतिरिक्ततअनुमानमपि नापरोक्षताव्यतिरेकं साधयति ।कथं न साधयति / यदा परोक्षावस्थायामपि साधयति ततो नीलमास्त एव यत्पश्चात्प्रतिपत्स्ये। न,तत्र पूर्वरूपानुसारेण प्रतिपत्तिभावात् / स्मरणन्तदनुभवानुसारिस चानुभवोऽपरोक्षरूपस्यैव / न च पृथगपरोक्षरूपतामवस्थाप्य नीलादिस्मरणविषयः। इह कथं प्रतिपत्तिरिति चेत् / नेहापि तथाभूतमेवाध्यारोप्यते। यदि पूस्विकामपरोक्षरूपतां परित्यजति / नीलरूपतामपि तदव्यतिरेकात्परित्यजेदेव नहि विभागेन स्मरणम् / स्मरणमनुमानं न भवत्यधिकस्य प्रतिपत्तेरिति चेत् / नाधिकस्य प्रतिपत्तौ कारणाभावात् / कथन्तदधिकस्य प्रतिपत्तिरिति चेत् / नाभावात् / कथं प्रमाणम् / प्रथममेव व्याप्तिसिद्धः। यदा धूममग्नरुदयमासादयन्तं पश्यति परापरदेशाग्निसम्बन्धेन / तदैवमस्य प्रतिपत्तिः। यत्र यत्रायमुपनीयते तमं जनयति / नैकदेशोऽन्यदेशसम्बद्धम्। ततो यद्यन्यत्रापि भवत्यग्निस्तत्रापि जनयत्येव / तेन धूमदेशोऽग्नेः प्रतिपन्न एव / स च भावी धूमोग्निर्वा तद्रूपः एवाध्यारोप्यते नान्यथा, शक्यत्वात् / ततोऽधिकधूमदर्शनावधिकपावक प्रतिप्रत्तिः / यस्य तहि पूर्वकं पावकविषयमध्यारोपं विनैव झटिति धूमदर्शनात्प्रतिपत्तिस्तस्य कथम् / तस्यापि सामान्यप्रतिबन्धमन्तरेणाप्रतिपत्तेः। तथा हि(1)यदि नाम झटिति प्रतिपत्तिस्तथापि यदानयुज्यते . यदि नामात्र धूमः कस्मादग्निः / एवमेव दृष्टत्वादितिः। तेन वक्तव्यं (0) तच्च वर्शनं नः परमार्थतोऽपि माग

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102