Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ तन . 374 प्रमाणवात्तिक-भाष्यम् [3 // 333 यदि जातोसौ भावः केन तस्याभावः क्रियते / वैवरक्ताः किंशुकाः,क एनानघुना रञ्जयति / ___ अथ जातः कारणात्तथा सति यथा जातः तथास्ति कथं विनाशावेशः। तथा सति तदेव नष्टं तदेव सदिति महदसमञ्जसं / अथ यथा न जातस्तथी विनाश्यते। तथा सति / अन्यरूपेण जातस्य यद्यन्येन विनाश्यता / नीलादेरन्यपीतादिरूपेणास्तु विनाश्यता // 789 / / न च तस्य तद्रूपमिति त एव देवरक्ताः / तेन च - स्मरूपेणासौ पश्चाद् विनाश्यतेऽथ सर्वदा / यदि पश्चाद्विनाश्येत पूर्वं तद्रूपता भवेत् 1790 // तेन रूपेण जातस्य कथं पश्चाद्विनाशनं / तदैव तेन रूपेण जातं पश्चाद्विनाश्यते 791 // पश्चात्तद्रूपनास्तित्वे देवरक्तः स किंशुकः / पूर्वमेवास्य नाशश्चेत् कारणादेव तत्तथा / 792 // नाशकेन परं कार्यं किमस्येति निरूप्यताम् / / (5) एतदालम्बनविनाशेपि समानं। तथा हि / यथा स जातस्तेनास्य रूपेण न विनाशनं / यथा न जातस्तेनापि न रूपेण विनाशनं // 793 // व्यर्थकत्वादशक्यत्वात्प्रमाणेनाप्रतीतितः / अस्यार्थस्य कथन्नु स्यात्कल्पनापि सचेतसाम् // 794 // ( 13) अथालम्बनाभावं ज्ञापयति बाधकः / तदप्यसत् / / यदासौ दृश्यते भावस्तदाभावो न विद्यते / यदा न दृश्यते भावोऽदर्शनन्तस्य बाधकं // 795 / / तदा भावाप्रसिद्धौ च नाभावः सविशेषणः / विशेषणाप्रसिद्धी च बोधशक्तिः कथन्तव / / 796 // विशेषणमथान्यत्र सिद्धमत्रानुवादवत् / भावरूपं हि तत्तत्र नाभावस्य विशेषणम् // 797 // तदेवान्यत्र नास्तीति यद्येवं प्रतिपाद्यते / तथैव प्रतिपन्नस्य निषेधोस्य किमर्थकः // 798 // अन्यथा प्रतिपन्नस्य तथापि न निषेधनं / प्रागुक्तमेतदेवेति न पुनः पुनरुच्यते // 799 // न दृश्यते यदा भावः तदा न स्यानिषेधनं / स्मृत्याच्या कृत्य तत्रास्य क्रियते चेनिषेधनं / / 800 // स्मृत्यनिरूपग्रहणे न कथञ्चिनिषेधनं / स्मृत्या स्वरूपग्रहणे नाभावस्य विशेषणम् // 801 // अथ स्मृतौ विकले वा यदेव प्रतिभासते / तत्तावन्मात्रमेवास्ति बाह्यरूपं न विद्यते // 802 // एवं तर्हि लोकप्रतीतावन्यत्र यद्वाह्यमिति भासते / तत्तावन्मात्रमेवास्ति न तु तत्तत्त्वमीक्ष्यते // 803 // प्रतीतिमात्रमालम्बो न तु तद्वाह्यमीक्ष्यते / स्वप्नादिप्रत्ययेभ्योस्य विशेषग्रहणन्नहि / / 804 // प्रतीतिमात्रकादस्य वासनाबलनिर्मिताम् (1) न विशेषपरिच्छेद इत्यनालम्बना मतिः // 805 / / कथन्तहि बाध्यबाधकभावप्रतीतिः / प्रतीयमानस्यैकत्वं भाविनारोप्य तत्र च / बाधकप्रत्ययापाते तन्मध्ये बाधकस्थितिः // 806 / / वाधको यदि नायं स्यादेवमेव भवेदयम् / अविच्छिन्नस्ततखेदकारणम्बाधको मतः // 807 // तथा हि कालान्तरस्थायिताकलय भावस्य / तत्कालमध्य एव यवापरस्वरूपनि __भी x ' T. गङ-छे द्डोस्-दे मयोङ-ग्युर्व / दे-छे मेद्-पर् तोंग्स् म-यिन् (यदा स दृश्यते भावो नाभावप्रत्ययस्तदा ।)-इत्यधिकः पाठो भोटभाषांतरे।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102