Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 36
________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् 8 / म 371 वाचकाद्वाच्यन्तरेभ्यश्च भेदानभ्युपगमावस्य च वादिनः शब्दार्थमात्ररूपेणापि निरूपणमशक्यं सामान्यानभ्युपगमेन धर्मादिविकल्पने सति परवादिना तेन प्रत्यवस्थातुमशक्यमिति / . तदसत् / प्रत्यय इत्यविशेषणं शब्दार्थमात्रं विज्ञानमिति योऽर्थः प्रतिभासनमिति यस्य पर्यायः तस्य सिद्धत्वात् : असदेतत् / द्विचन्द्रादिप्रत्ययेन्यत्र च यत्प्रत्ययत्वं तदेकाकारपरामर्षविषयः सिद्धमेव / तस्य तु पुनः किन्तत्त्वमित्यपरं सकलं विचार्यत्वात्साध्यमध्यमध्यासीनमसिद्धमिति किमयुक्तं / अत्रासिद्धता पश्चादाक्षिप्य निराकरिष्यते। अन्यदुच्यते तावत्। निरालम्बनता चेह सर्वथा यदि साध्यते। विशेषणाप्रसिद्धिः स्याद् दृष्टान्तश्च न विद्यते // 669 // __ सर्व एव प्रत्ययो निरालम्बनः साध्यः। को दृष्टान्तस्तत्र / अथ जाग्रत्प्रत्ययस्तथाप्यसिद्ध एव दृष्टान्तः / स्वप्नप्रत्ययस्यापि सालम्बनत्वात्कथञ्चित्तत्कालान्यकालवस्त्वालम्बनत्वात्। अथ तत्कालालम्बनाभावः। तदा केनचिच्चेत्प्रकारेण निरालम्बनतोच्यते। रसज्ञानस्य रूपादिशून्यत्वात्सिद्धसाधनम् // 670 / / यथा यस्य यदालम्बनतत्कालमन्यकालादि वा तथा तत्सालम्बनमभ्युपगन्तव्यं / तथाप्यनालम्बनत्त्वे रसज्ञानमपि रूपेणानालम्बनमिति प्राप्तं तच्चेष्यत एवेति सिद्धसाधनं / अथ बुद्धिर्यदाकारा तदालम्बनवारणम् / स्वाकारस्याभ्युपेतत्वात्तदभावो विरुध्यते // 671 / / प्राहकाशो हि ज्ञानस्य नाकारता। किन्तहि ज्ञानाकारतैवेति भवतामभ्युपगमः / तत्रेदानी ज्ञानस्य ग्राह्याभावः प्रसक्तोऽनिष्टश्च / तत्र पाहात्मनालम्ब्येन भाव्यं अथ बाह्यनालम्बनं / तदसत् / बाह्यानालम्बनत्वेपि बाह्य इत्यग्रहो यदि / स्तम्भादौ नैव तद्बुद्धिरित्येवं सिद्धसाधनम् // 672 / / प) त्रापि बहिर्घट इति बुद्धिस्तत्रापि न घट एवालम्बनं / अपि तु बहिविषय एव / तत्सामानाधिकारण्यात घटे तथा प्रत्ययः। . अथ स्तम्भादिरूपेण निरालम्बनतोच्यते / सम्वेदनस्य दृष्टत्त्वात्तद्विरोधः प्रसज्यते // 673 // द्विचन्द्रादिषु तुल्यञ्चेदिन्द्रियाप्राप्तितो हि / __तत्रानालम्बनोक्तिः स्यानार्थसम्वित्त्यभावतः // 674 // ___ इन्द्रियेण चक्षुरादिना प्राप्तं गृह्णाति बुद्धिरिति निरालम्बनतोच्यते / द्विचन्द्राविबुद्धः। न तु तदालम्बनमेव / एकचन्द्रप्रतिपत्तिरासीदस्य प्रागिति तेन सम्प्रयोग इन्द्रियेण वयस्येत्यनालम्बना। न तु सर्बदार्थ एव नास्ति। एकचन्द्रदर्शन सति तद्विपर्यये नालम्बनत्वमिति कारणमनालम्बनत्वप्रतिपत्तेः / एतदेव दर्शयति / सर्वत्रार्थेन्द्रियाणां संयोगसदसत्तया। सम्वित्तो विद्यमानायां सदसद्ग्राह्यतास्थितिः // 675 / / भवत स्त्विन्द्रियादीनामभावाद् ग्रहणादृते। नालम्बनत्वहेतुः स्वानिषेध न युज्यते // 676 // . T. श्लोकवातिके 228-229 पृष्ठयोः। 2 T. श्लोकवार्तिके/२२९-२३० पृष्ठयोः / 3 T. श्लोकवार्तिके 229-230 पृष्ठयोः। 1 T. भवत इति भोटभाषान्तरे / T. निषेधोतो न-इति हे. पुस्तके।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102