Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 34
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् व्यतिरिक्तालम्बनत्वेन तु निरालम्बनता विज्ञानात्मकत्वेनैव सुतरामिति प्रतिपादितम् / यत्पुनरभ्यधायि - कर्तृत्वे करणत्त्वे वा पक्षत्त्वं शब्दयोरपि(1) तन्निरालम्बलनत्वेन पक्षाभावः प्रसज्यते इति // 753 // , तदतिसुभाषितं / यतः ताभ्यामपि किल प्रत्याय्यते निरालम्बनप्रत्ययशब्दाभ्यां ततः तयोरपि प्रत्ययत्वं / तदनालम्बनत्वेन कश्चित्प्रत्यक्षः शब्दगतमात्रकमेव केवलं / अर्थी नालम्बनं तत्र व्यावृत्तिः शब्दगोचरः / तस्य सम्वादितामात्रात् पक्षत्वं न विरुध्यते // 754 // . नहि शब्दगोचर एव पक्षः। साधनविषयत्वात्तस्य' / साधनञ्च प्रत्यक्षलक्षणोऽनुपलम्भः२। तेन स्वाकारालम्बनता साध्या सा पक्षः। कथं पक्षाभावः। प्रत्यय इति चात्र ज्ञानं प्रकरणादवगतं तत्कथं शब्दद्वारकदूषणावसरः। नहि यावद्वयुत्पत्त्या विषयीक्रियते स शब्दप्रतिपाद्योपि तु प्रकरणायात एवान्यथा न शब्दादर्थगतिः। सामान्यशब्दानामपि प्रकरणाद्विशेषवृत्तितोपलभ्यते, सैन्धवमानयेति यथा। भोजनलायां लवणस्यैव प्रतीतिः / इदमप्येकफूत्कारेणेव गतं यदाह में प्रत्याय्येन च वाक्येन विना काद्यसम्भवः / प्रत्यये तन्निमित्ते वा बाधः स्ववचनेन ते४ // 755 // यदि न प्रत्यायपयति किञ्चित्प्रत्याय्यते वा न तेन, कथमसौ तथा, प्रत्ययविषयाभावे वा किम्विषया प्रतीतिरिति / / यतः प्रत्याय्येन हि भिन्नेन विना कळदिसम्भवः / प्रत्यये तन्निमित्ते च बाधः स्ववचनात्कथं // 756 // कल्पितः कर्मकादिः परमार्थो न विद्यते / आत्मानमात्मनवात्मा निहन्तीति निरुच्यते // 757 // अबाह्यनिमित्तो च प्रत्ययशब्दार्थो न स्ववचनबाधः // अथापि रूढिरूपेण प्रत्ययः स्यात्तथापि तु / "ग्राहकं वस्तु नः सिद्धं प्रत्ययोन्यस्य वस्तुनः // 758 // - रूढिरूपेणापि प्रतीतिनिरपेक्षः प्रत्ययशब्दो व्यतिरिक्तस्यैव वस्तुनः सिद्धः प्रत्यय इति / ततः सिद्धमेव लोकप्रसिद्धचा बाह्यवस्तुविषयत्वं / नहि लोकप्रसिद्धमन्यथा शक्यविधानं / / तदसत् / लोकप्रसिद्धिमात्रेण न वस्तूनां व्यवस्थितिः। विचारकस्य लोकस्य वस्तुसिद्धौ निमित्तता // 759 // सम्वेदनातिरेकेण लोकः को वार्थसिद्धये / सम्वेदनस्य लोकत्वे तदनालम्बनीकृतं // 760 // सम्वेदनं विना लोको यदि तत्त्वं विवेचयेत् / विवेचयेयुः सर्वेमी जनात्मानः शिलादयः // 761 // / यदप्युच्यतेने ' तस्य / शब्दस्य प्रत्ययस्य वा 2 टि-निरालम्बनं ज्ञानं व्यतिरिक्तार्थादृष्ट:(?) 3 श्लोकवार्तिके वाक्येनेत्यत्र भिन्नति, बन्ध इत्यत्र वाघ इति पाठः। 4 श्लोकवार्तिके 227 पृष्ठे। " श्लोकवार्तिके "ग्राहकं वस्तु सिदं नः" इति पाठः / श्लोकवार्तिके 228 पृष्ठे /

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102