Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 32
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 367 तराश्रयदोषः। यच्च प्रत्यक्षेण न प्रतिपन्नं तत् कथं वचनात्प्रत्येतव्यं / नहि प्रत्यक्षेर्थे परोपदेशो गरीयान्। किञ्च। प्रत्यक्षस्य प्रमाणत्वे वचनस्य प्रमाणता / वचनस्य प्रमाणत्वे प्रत्यक्षस्येत्यसाध्वदः // 729 // परस्परसहायत्वं न तैमिरिकयोर्द्वयोः / न प्रत्येकमसामर्थ्य समुदायस्य तद्यतः // 730 // - तस्माच्चक्षुरादिकरणाधीनस्वसम्वेदनत्वाद्विज्ञानमेव नीलादिकमित्यवेद्यवेदकाकारा बुद्धिरूपा बुद्धिः। तथैव कृतव्यवस्थेयं बुद्धिः / तथैव वेदनादिति परमार्थः। ततः स्वसम्वेदनमेव फलमर्थ इति च निश्चयस्तत्रैव। नार्थसम्वेदनन्नामास्तीति। ततो यदुक्तं न ग्राहयस्य स्वरूपग्राहकत्वे दृष्टान्तः कश्चिदस्तीति / तत्र विपर्ययाभावेऽनुपलब्धिसाधिते कथमदृष्टान्तता शशविषाणादिरनुपलभ्यमानो दृष्टान्तः प्रत्यक्षप्रसिद्ध वा किं दृष्टान्तेन। ततो यदि शक्ष्यामो विस्पष्टं स्वाङ शनायनिवारणम्। तदा शुद्ध एव ते पक्षो विशेषणरहित एव ग्राह्यनिवारणो भवेत्। तस्य च पक्षस्य प्रत्यक्षेण बाधनं। यतः प्रत्यक्षादेः प्रत्ययवर्गस्य बायमेवालम्बनमवशिष्यते। स्वाङशग्राहयनिवारणात् इति यदुक्तं परेण, तदसङगतं। प्रत्यक्षस्य बायविषयत्वाभावस्य प्रतिपादनात् खनिश्चयेने तेषां जाग्रत्प्रत्ययानां बाधकरहितत्त्वेन - लम्बनत्त्वमिति चेत्। न। स नमें स्वनिश्चितत्त्वमेतेषां स्वाङम एव समीक्ष्यते / निश्चयो बहिरर्थे तु नासावनवभासिते // 731 / / प्रतिभासस्मरणातिरेकेण न निश्चयो नाम। न तावत्प्रतिभासनमर्थस्य प्रतिभासाभावे च न स्मरणं। ततोऽपरस्य निश्चयस्याभावात् निश्चयो बहिरर्थ इति वचनमात्रकमेवैतदिति व्यर्थ'दुष्टज्ञानगृहीतेथे प्रतिषेधो हि युज्यते / अगृहीतग्रहग्राहनिषेधः किन्न युक्तिमान् // 732 // गृहीतमात्रबाधे तु स्वपक्षस्यास्त्यसिद्धता / अगृहीतस्य सत्वन्तु भवता कथमुच्यते // 733 // अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः / अप्रसिद्धोभयत्वं वा वाच्यमन्यतरस्य वा // 734 // भेदेन पूर्वग्रहणात्पश्चात्तत्त्वनिरूपने(?णे)। न भेदः परमार्थेन ततः किम्वा विरुध्यते // 735 / / विशेषणविशेष्यत्त्वं व्यावृत्तिपरिकल्पितं / कार्यकृद्वौद्धराद्धान्ते न गतं श्रुतिगोचरं / / 736 / / चक्षुश्श्रोत्रोश्च यज्ञानं विशेषणविशेष्ययोः / __ तन्निरालम्बनत्वेन स्ववाग्वाधो न कस्यचित् // 737 / / सम्भवोस्ति प्रभेदस्य विशेषणविशेष्ययोः / ततो निरूपणा किन्न प्रतिज्ञार्थस्य शोभना / / 738 / / अपि च। निरालम्बनता नाम न किञ्चिद्वस्तु गम्यते / तेनैतद्वयतिरेकादौ प्रश्नो नैवोपपत्तिमान् // 739 // यद्यवस्तु कथन्त्वस्मास्त्वंबोधयितुमिच्छसि / बुध्यसे वा स्वबुध्या त्वं कल्पयित्वाथ साध्यते।।७४०॥ 1 श्लोकवार्तिके एताः कारिकाः 225 पृष्ठे। परं तत्र 'अगृहीतग्रहगाह -', 'अगृहीतस्य ___ सत्त्वं तु-'इत्यर्घद्वयं, 'भेदेन पूर्वग्रहणात-"विशेषणविशेष्यत्वं-'इति श्लोकद्वयं च नास्ति / 2 श्लोकवार्तिके स्वपक्षोऽपि न सिद्धयतीति पाठः / 3 , अप्रसिद्धोभयत्वं वेतिपाठः। , वक्तृश्रोत्रोरिति पाठः / 5 श्लोकवार्तिके 226 पृ. /

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102