Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 366 प्रमाणवात्तिक-भाष्यम् [3 // 333 प्रतिभासनञ्च किमर्थ। सुखार्थ ग्रहणार्थम्वेति चेत् / तदर्थ तहि प्रवर्तते। तच्चाप्रतिभासितमेव। तस्मादप्रतिभासमान एव सर्वत्र विषयत्वमित्यनालम्बनं सकलं सम्वेदनमिति कथन्ततो विपर्ययसाधनं। कथन्तहर्यविषयीकृते प्रवर्तते। तदसत्। विषयीकृतेपि हि कथं प्रवर्तनमितीरितं / कार्यकारणभावोयमेवमेव व्यवस्थितः // 716 / / स्वसम्वेदनप्रतिपत्तेः प्रतिपत्त्यनन्तरम्भवति स्वहेतुसामर्थ्यादहेतुतो वा। यथा दष्टं तथाभ्युपगम्यतामत एवोक्तं (1) "निर्व्यापाराः सर्वधर्मा" इति। अथवा व्यतिरिक्तस्य पूर्वमप्रतिपत्तेः प्राप्यस्य पश्चाच्च भेदप्रमाणाभावात्कथं व्यतिरिक्तप्रतीतिः। एतेनार्थक्रिययापि सहकार्यकारणभावः प्रत्युक्तः। पूर्वापरयोर्भेदाप्रतीतेः समानकालस्य चाजन्यत्वात् स्वरूपमेवार्थक्रिया/ सा च स्वप्नेप्यस्तीति समानं। ततो बुद्धिरवेद्यवेदकाकारव। विभक्तलक्षणी ग्राहयग्राहकाकारौ विप्लव एव ततः। ततः स्वरूपमात्रसम्वेदनादपरो विकल्प एव केवलमुदेति पूर्वानुबोधात्। ततस्तथा व्यवस्था न परमार्थतस्तत्र तथात्वं। तथा हि केशज्ञाने सति पूर्वानुस्मरणादेवंभूतप्रतिभासानन्तरं प्राप्तिरासीत्। ततो विकल्पो ग्राहयग्राहकोल्लेखेनोत्पत्तिमान्। सोपि स्वरूपे ग्राहयग्राहकरूपरहित एवापरेण तथा व्यवस्थाप्यते। न तस्यापि स्वतो व्यवस्था। सम्वेदनेन बाह्यत्त्वमतोर्थस्य न सिध्यति / सम्वेदनाद्वहिर्भावे स एवन्तु, न सिध्यति // 717 // यदि सम्वेद्यते नीलं कथं बाह्यं तदुच्यते / न चेत्सम्वेद्यते नीलं कथम्बाह्यं तदुच्यते // 718 // अन्येना वेदने तेन कथम्बाह्यन्तदुच्यते / अन्येन वेदने तेन तेनेत्येषानवस्थितिः // 719 / / अन्येन वेदनञ्चैतत्कुतोऽवस्तिमात्मना / तत्कार्यदर्शनान्नैतत्कार्यत्वस्याप्रसिद्धितः / / 720 // ___नहि कार्यकारणभावः प्रसिध्यतीति निवेदितमेतत। अनुमानस्य सामान्यविषयत्वस्य वर्णनात् / स एव दृश्यतेन्येनेत्येतदेव न सिध्यति / यथा च रोमहर्षादिकार्यदृष्टस्तदेकता // 721 // तथा सुखादेरेकत्वं तत एव प्रसिध्यति / / अन्यदेव सुखन्तस्य ग्राह्यमप्यन्यदस्तु तत् // 722 // देशभेदात्सुखादीनामन्यत्त्वमिति चेन्मतिः ।।एकत्वे देशभेदोपि कथं सिध्यति तत्वतः // 723 // तत एव सुखादन्येरोमहर्षादयो न किं / / अन्यत्वाद्रोमहर्षादेः सुखस्य यदि भिन्नता // 724 // अन्यत्वे ग्राह्यमप्यन्यदिति कस्मान्न गृह्यते // रोमहर्षादयोप्यस्मत्सम्विदन्तर्गता यदि // 725 / / कथन्तेन्योन्यसातादिप्रतिभासगतिः स्फुटा / अस्मत्सुखं विनाप्यस्य रोमहर्षादयो यदि // 726 // अस्मद्ग्राह्यम्विनाप्यस्य रोमहर्षादयो न कि / कालभेदेन त्रापि यदि भेदः समिष्यते // 727 // अभिन्नस्य स्वरूपेण कालभित्किङकरिष्यति / अभेदोप्यस्तु तत्रापि परोक्षो न भवेदसौ // 728 // सम्वित्तिपरिहारेण स्थितमेकं कथञ्च तत् / / / यदि तदेकमेवाद्याप्यनुवर्तते कथमस्य परोक्षता। परस्परसम्वेदनपरिहारेण च व्यवस्थित कथमेकमिति चिन्त्यमेवैतत् / ) यदि च साधारणत्वं प्रतिभाति त्वया दृष्टं न वेति किमिति प्रश्नः। प्रमाणान्तरसम्वादार्थ। यदि प्रत्यक्षान्न प्रत्येति वचनादपि नैव प्रत्येष्यति। तदपि स्वप्रतिभासमेव सूचयति त्वत्प्रतिभासितं मम प्रतिभातीति तेनापि वर्षवं ज्ञातव्यं / तत इतरे.

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102