Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ अर्थसंवेदन-चिन्ता ] - प्रत्यक्षम् 365 ननु प्रत्यक्षमपि द्विचन्द्रविषयमेकचन्द्रावभासिना तदुत्तरकालभाविनान्येन वा बाध्यत एव / तस्याप्रत्यक्षत्वादिति चेत् / कस्माद्वाध्यमानत्वात् / परस्परपरिहारेणावस्थितयोः . कथं बाध्यबाधकभावः। एवमेतदिति चेत्। द्वयोरपि बाध्यबाधकभाव इति। न,प्रापकत्वादेकस्य बाधकत्वमेव। तथा होकत्राभिप्रेतप्रापकत्वं नापरस्य। एवन्तहि तदेव पारम्पर्येणानुमानस्य बाध्यत्वमायातं। ततो निरालम्बनाः सर्व एव प्रत्ययाः स्वप्नप्रत्ययवदिति कोर्थ-का स्वरूपालम्बनाः। तत्र च प्रत्यक्षन्तत्समुत्थापितं चानुमानमनुपलब्धिरूपं / तच्च नानुमानेनान्येन. वा बाधितुं शक्यम् / व्यतिरिक्तालम्बनसाधनं तु न प्रत्यक्षं नापि उदुत्थापितमनुमानमन्धपरस्परायातत्वात्। तत्र चानुमानं प्रत्यक्ष वा भवति बाधकमित्येकान्त एषः। ततः सर्वे सालम्बना जाग्रत्प्रत्ययवदिति' न प्रतिप्रमाणममूलत्वात्। स्वप्नादीनां सालम्बनत्वबाधिका बुद्धिरनालम्बना। तथा सति तदृष्टान्तेन कथं सालम्बनत्वसिद्धिः। ननु च निरालम्बनत्वं प्रत्ययान्तरगतं तदनया बुद्धया साध्यते। तच्च व्यतिरिक्तं / ततोन्योपि प्रत्ययो व्यतिरिक्तसाध्यविषय एव प्रत्ययत्वादिति कथमप्रतिप्रमाणम्। यदि नाम प्रत्यक्षपूर्वकत्त्वादस्या व्यतिरिक्तालम्बनत्वं / तद्विपर्ययबुद्धस्तु विपर्ययग्रस्तायाः किमायाँत येन सापि तथेष्यते। न चासौ व्यतिरेकं साधयति, व्यवहारमात्रप्रसाधनात् / अपरं व्यतिरिक्तेतरालम्बनं सम्वादयति। स च सम्वादस्तदनुभवाभिनिवेशी तत्काल एव / ततो नेदानीन्त दत्र प्रतिभाति मयि / अहन्तु स्वाकारपर्यवसितैवेति तदात्मानमनालम्बनमेव प्रतिपादयति ततो नानया३ सालम्बनया परापि सालम्बना साध्यते / (ग) ग्राह्यग्राहकाकारप्रतिभासव्यवसायः . ननु यदि तद्रूपं न विषयीकरोति कथमनया तत्साधितम्। तत्र सम्बादादित्युक्तं / सम्बादाद्विषयीकृतमिति ज्ञायते। अत एवाह / .. अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते // 331 // विभकलक्षणग्राह्यग्राहकाकारविप्लवा / तथाकृतव्यवस्थेयं केशादिशानभेदवत् // 332 // यदा तदा न संचोद्यग्राह्यग्राहकलक्षणा / अवेद्य एव वस्तुनि वेदकाकारा केशादौ प्राप्ये, न हि तत्र केशादौ प्राप्ये बुद्धिर्वेदिका तस्यासत्त्वात् / भ्रान्तैस्तु प्राप्य वेदिकेति प्रतीयते / अतश्च प्रतीयते यप्रवर्त्तन्ते / तत्रेदानी प्रवृतानां जाना प्राप्तिर्नास्ति तत्रानालम्बनत्वं स्फुटमेव। तेनापरगनालम्बनं साध्यते। समानरूपोपलक्षणाद्वि लक्षणस्यानुपलक्षणात् / सालम्बनत्वन्तु न क्वचिदुपलक्षितं ततः कथं तत्समानत्वात्सर्वसालम्बनत्वप्रसिद्धिः।. नहि प्राप्य रूपप्रतिभासि तदुपलक्षितं प्रवृत्तेरेवान्यथा तस्य प्रतिभासनादप्रवर्तनं स्यादित्युक्तं। प्रतिभासितेपि पुनः प्रतिभासनार्थ प्रवर्तत इति चेत् / पुनः प्रतिभासमानत्त्वन्तर्हि न प्रतिभासितं। तस्यापि प्रतिभासमानत्वेन प्रवत्ततेत्यनवस्था। पुनः 1 B. टि-अनालम्बनसाधन्या बुद्धेः 2 B. टि-जाग्रत्प्रत्ययगतमनालम्बनं नेदानीमपि प्रति / अहमेव तदाकारबुद्धिरित्यर्थनालम्बना 3 B.टि-अनुमानसाधन्या

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102