Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 368 प्रमाणवात्तिक-भाष्यम् [ 33333 असतः कल्पना कीदृक् तत् क्लिष्टौ वस्तु सज्यते / कथमिष्टमभावे चेद्वस्तु सोपीति वक्ष्यते // 741 / / उक्तमेतद्वयावृत्तिभेदकल्पितेन रूपेण विशेषणविशेष्यभावो निरालम्बनत्वं कल्पितबाहयालम्बनभेदेन पृथगिव व्यवस्थाप्यते। तथाभूतस्वरूपबोधनाय न परमार्थतो भेद प्रतिपाद्यतेऽभेदप्रतिपादत स्य वस्तुत्वात्। अवस्तुनि कल्पना कथमिति चेत्। अत एव / अन्यथा वस्तुनः कल्पना कीदृक तथाऽवस्तु प्रसज्यते / अभावे कल्पनावृत्तिन चं वस्तु स विद्यते // 742 / / अथ प्रत्यय इत्येष कर्मभावादि वा भवेत् / भावादिषु विरोध: स्यात्कर्म चेत्सिद्धसाधनं / / 743 / / कर्म न उच्यते। प्रत्यय इत्येष धर्मिरूपोऽन्यः कर्मव्युत्पत्या वा स्यात् प्रत्याय्यत इति प्रत्ययः। अथवा प्रतीतिः प्रत्ययः। प्रत्याययति प्रत्याय्यतेऽनेनेति वा प्रत्यय इति E भावकतकरणरूपता वा स्यात् सर्वमेतदनुपपन्नं / यदि प्रतीतिः प्रत्ययः सा प्रत्याय्येन विना न भवति। एवं कादिकमपि। ततश्च प्रत्यय इति बाह्यार्थापेक्षः। निरालम्बन इति तदभाव इति परस्परविरोधिता / तदसत् / यदि प्रतीतिः प्रत्ययः सा स्वात्मनिष्ठाऽन्येन विना न भवतीति कुत एतत् / अन्यस्य तस्यामदर्शनात् / स्वरूपमेव च तत्र प्रत्याय्यं भविष्यति किमन्येन / तथा च प्रतिपादितं / प्रत्याययति प्रत्याय्यतेऽनेनात्मैवेति किम्विरोधगतमत्र / कर्म चेत् कर्मत्वं नाम नावगम्यते। स्वरूपेण हि नीलादिकं प्रतिभासते न तु तस्यापरा कर्मता नाम / यद्यसावन्यन का स्वव्यापारेणार्यमान उपलभ्येत तदेवालम्बनमन्यस्य तच्च निराक्रियते यदि कथं सिद्धसाधनम्। किंत्वसावर्थ्यमान एव न सिध्यति / ततः कथं कर्मतया तस्यालम्बनभांवः / स्वरूपेण तदा लभ्यते चेदिदमिदानी सिद्धसाधनम् / र नन्वालम्व्यमान आत्मना अहं नीलं प्रत्येमोति प्रतीयते। तदसत् / अहमित्यपि यत् ज्ञानन्तच्छरीरेन्द्रियात्मवित् / अहं काणः सुखी गौरः समानाधारवेदनात् // 744 // न हीन्द्रियादिभ्योऽपरमात्मानमहं प्रत्ययालम्बनत्वेनोपलभामहे / येन प्रेरणमेतेषां स आत्मा चेदनन्यवित् / स्वस्वभावोदयादेषां प्रमाणं नापरं क्वचित् // 745 // उदयश्च यतो दृष्टः स एव प्रेरको यदि। अन्योन्यप्रत्ययत्वेन प्रेरकास्ते परस्परम् // 746 / / समुदायात्तदन्यस्य समुदायस्य सम्भवे (0) कार्यकारणभावेन व्यवहारः प्रवर्तते // 747 // बुद्धिरूपविवेकेन प्रेरकं नान्यदीक्ष्यते / पूर्वपूर्वस्तथाभूताभ्यासो वा प्रेरक: क्वचित् / / 748 // सुखेन्द्रियाकारबुद्धेर्यदि बुद्धयन्तरोदयः / नीलाद्याकारतां प्राप्तः तत्कुतः कर्मकर्तृता // 749 / / समानकालवृत्तौ वा व्यापारो न परस्परं / तत: कर्मादिभावानां न भाव उपपत्तिमान् // 750 // यत्तूक्तं / प्रत्ययस्य हि-रूपादेनिरालम्बनतेष्यते / स्वविज्ञानात्मकत्त्वेन किञ्चिन्नालम्बते ह्यसौ // 7511 // तदत्यन्तमसत् / यतः। प्रत्ययस्य न रूपादेनिरालम्बनतेष्यते / अबोधरूपव्यावृत्तः स्वाङ्गमालम्बते ह्यसौ // 752 // 1 T. श्लोकवातिके 226 पृ० / 2 श्लोकवार्तिके प्रत्याय्यस्येति पाठः / / श्लोकवार्तिके 227 पृष्ठे।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102