Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 370 प्रमाणवार्तिक-भाष्यम् [ // 333 तमभ्युपेत्य' पक्षश्चेद् अभ्युपेतं विरुध्यते / विशेष्य (स्याऽ) प्रसिद्धिश्च तवास्मानमतादृशे' // 762 // तादृशे वस्त्वन्तरप्रत्यायके तवासिद्धिविशेष्ये प्रत्ययेऽस्माकमन्यथाभूते। तथा / आत्मधर्मस्वतन्त्रत्वकल्पनेपि तथा भवेत् (1) तर न च प्रत्ययमात्रत्त्वं किञ्चिदस्त्यनिरूपणालित / / 763 / / तथा हि। यदि व्यतिरिक्तसाधनत्वमभ्युपगम्य प्रत्ययः पक्षीक्रियेत स तथाभूतो धर्मी न भवतः सिद्धः। नहि बौद्धस्यैवमभ्युपगमः। अथ विपर्ययाभ्युपगमोऽव्यतिरिक्तसाधनत्वं तथासति प्रतिवादिनामस्माकमसिद्धः। न हयव्यतिरिक्तसाधनः प्रत्ययोहस्माभिरभ्युपगतः, एवमात्मधर्मत्वं बौ द्धा ना मसिद्धं / स्वतन्त्रत्त्वं च मी मां स का ना। न च प्रत्ययमात्रमस्ति / यस्य धर्मित्वमुभयपक्षव्यतिरेकेण निरूपयितुमशक्यत्वादिति तद्यथाकथञ्चिन्मुखमस्तीत्युक्तं / यतः उक्तमेतत् + विवादपदभूतस्यावश्यमेवाप्रसिद्धता। प्रसिद्धिस्तस्य चेज्ज्ञाता साधनं कस्य साधनम् // 764 // / य एव हि व्यतिरिक्तसाधनधर्मः प्रत्ययस्य धर्मिणो विशेषणत्वेनासिद्ध इति तदसिद्धिद्वारेण विशेष्यासिद्धयुद्भावनार्थ भवता स एव विवादास्पदीभूतः भवता साध्यः, तेन च विशेषणेनासिद्धत्वमिष्यत एव धर्मिणः साधनकाले यदि तु स एव सिद्धः किमिदानी सिद्धोपस्थायिना साधनेन / नत्वसिद्धविशेषणः पक्षो दुष्ट एव यथा सां ख्यं प्रति विनाशी शब्द इति / .. तदसत् / यतः। सांख्यप्रत्यपि पक्षस्य दुष्टत्वं विनिवारितम् / नहि दृष्टान्तसिद्धेऽर्थे पक्षेऽसिद्धविशेषणः // 765 / / अप्रसिद्धोथ दृष्टान्ते विनाशो हेतुदुष्टता। अनैकान्तिकता वा स्याद्धेतोर्वा स्याद्विरुद्धता // 766 // ___ यदि पक्षे न सिद्धो निरास (=स्वमास) इति दोषः। तदसत् / तत एव साध्यते / ततोऽप्रसिद्धविशेषणत्वमेव पक्षस्यादोषः कथमसौ 'दोषः। नहि स्वरूपमेव दोषः। अथ वृष्टान्तेऽसिद्धिस्तदा दृष्टान्तदोषो हेतुदोषो वेति न पक्षदोषता। . न चात्मधर्मताऽसिद्धौ धर्मानप्रत्ययो भवेत् / 4 न ह्याकाशगुणासिद्धौ शब्दो धर्मी न सिद्धयति // 767 // - श्रोत्रग्रहणमात्रेणव तस्य धमित्वं / अन्यथा न कश्चिद्धर्मी भवेत्प्रतिवाद्युपक्षिप्तस्य धर्मस्य सर्वत्रासिद्धत्वात् / तस्मादयमदोष एवेति यत्किञ्चिदेतत् / तत एवापरमपि परोदितमयुक्तं - शब्दार्थ मात्ररूपेण यथान्येषां निरूपणं / तथापि भवतो न स्याद्वावभेदमनिच्छत // 768 // इति / 'B'टि-सालम्बनःप्रत्ययः पक्षो निरालम्बनो वा सालम्बनमभ्युपगम्याह / धाम्मिणोप्यसिद्धिः / 2 B टि–निरालम्बने 3 B टि-पर्वतमात्ररूपेण 4 B टि-सामान्यवादिनां 5 B टि-एतेनापि प्रकारेण विकल्पितेन विकल्पश्चोक्त आत्मव्यतिरिक्तधर्मप लोकवार्तिके 228-229 पृष्ठयोः /

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102