Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 364 प्रमाणवात्तिक-भाष्यम् [ 31331 अयमपि स्वापानन्तरमेव प्रतिभासः ततः समानता स्वप्नेन प्रबोधे सतीति चेत्। न। प्रतिभासव्यतिरेकेण प्रबोधाभावात्। प्रबुद्ध इति प्रत्ययात् प्रबोध इति चेत् / न। स्वप्नेपि स प्रत्यय इत्युक्तं। तस्मान्न स्वप्नेतरयोविशेषः। ततो यो विशेषदर्शनात् सालम्बननिरालम्बनत्वभेदमाह तस्य तद्विशिष्टत्त्वमसिद्धमिति दूषणं। नस्विदानीं सालम्बनत्त्वसिद्धिः प्राप्ता जाग्रत्प्रत्ययाविशेषादिति विपर्ययसिद्धिः। न विपरीतादिख्यातेरभावप्रसङगात् जाग्रत्प्रत्ययवदेव तथा चाभ्युपगमबाधः। किञ्च / बाधकप्रत्ययो व्यक्तः प्रत्ययत्त्वादिहेतुना। विधातुं नान्यथा शक्यो नामुना व्यक्तबाधिका // 711 // बाधकप्रत्ययो यनुपलब्धिलक्षणो विपर्ययोपलब्धिरूपः प्रत्यक्षरूपो नानुमानेन प्रत्ययत्वादिना बाधितुं शक्यः। यदि धूमादग्न्यनुमाने पश्चाद्विपर्यये प्रत्यक्षवृत्तिः किमनुमानं प्रमाणं / ___ ननु प्रत्यक्षवृत्तावपि यदि द्विचन्द्रविषयेनुमानं बाधकं किन्तत्प्रत्यक्षमिति समानो न्यायः। न। तत्रापि प्रत्यक्षस्यैव बाधकत्वं / पूर्वमेकस्य दर्शनात्। अन्यथानुमानमेव न स्यात् / __ न तु प्रत्यक्षमनुमानपूर्वकं / यदि तु स्यात् / अनुमानमेव तत्रापि बाधकमिति भवेदनुमानबाधायां प्रत्यक्षमप्रमाणम्। तथा च परस्परव्याघातान्न किञ्चिद् भवेत्। ततः प्रत्यक्षमूलमनुमानं। न त्वनुमानमूलं प्रत्यक्षं। नन्वनुमानमूलमेव प्रत्यक्षमपि व्यवस्थितं / तथाई नानुमानं विनाध्यक्षं प्रथमं संप्रवर्तकं / अनुमानेन सम्बन्धग्रहणेस्मात्प्रवर्तनात् / / 712 // : अनुमानेन हि सम्बन्धग्रहणेऽर्थक्रियया प्रत्यक्षस्य प्रवर्तकत्त्वं ततोऽनुमानात्प्रत्यक्ष प्रमाणं प्रत्यक्षादनुमानमिति समानं परस्परबाधनं। यद्येवमितरेतराश्रयणदोषे एव स्यान तु प्रामाण्य-. मेकस्यापि। उक्तमेतत्स्वरूपस्य स्वतो गतिः। प्रामाण्यव्यवहारेण व्यतिरिक्त प्रवृत्तिविषयेथात्मनि / तच्चानादिव्यवहारान्धपरम्परया। तच्च सम्वादात्प्रमाणं सम्बादश्च भाविनि। भाविनि च सम्वेदनमेव। ततः कथमर्थविषयं प्रामाण्यं // अनुमानमपि स्वरूपविषये प्रत्यक्षामन्तरेणैव चेत् / न। तत्र तस्य प्रत्यक्षतवेति। ततोनुमानेन प्रत्यक्ष व्यतिरिक्ते बाध्यते। तस्यानुमानविषयत्वात् / परोक्षत्वात्तस्य / कथं परोक्षे प्रत्यक्षं प्रमाणमिति चेत् / प्रवर्तक- . त्वेन न ग्रहणेन। ग्रहणं चेदप्रवर्तकमेव भवेत्। तथा हि। यद्यसावेव पूर्वस्मिन् प्रत्यक्ष प्रतिभासिनः / प्रवर्तेत किमर्थं स प्राप्त एव स्वरूपतः / / 713 // अर्थक्रियार्थिनो वृत्तिर्न सा तर्हि प्रकाशिता / प्रकाशमानतायां हि पुनः स्यादप्रवर्तनम् // 714 // प्रकाशितार्थक्रियोपि प्राप्त्यर्थं संप्रवर्तते / प्राप्तेरप्रतिभासत्वादित्तिरप्रतिभासिते // 715 / / ___तत्र चानुमाने का न( बाध्यते यदि सुतरामस्मत्समीहितसिद्धिः। तथा हि। व्यतिरिक्तेऽर्थेऽनुमानेन प्रवर्त्यते प्रत्यक्षं। स च परोक्षत्वादनुमानस्य विषय इति तत्रैवानुमानेन बाधा प्रत्यक्षस्य। तत्र चानुमानबाधायामनुमानमेवानुमानेन बाधितं भवेत्। तच्चान्धपरम्परायातमनुमानं। तस्यानुमानेन बाधने प्रत्यक्षेण वा न कदाचित्क्षतिः। प्रत्यक्षतत्समुल्थापितानुमानयोस्तु नानुमानेन बाधा न प्रत्यक्षेणेति न्याय एषः। 1 B. टि-भाविनि 2 B. टि-तस्य भाविनः 3 B. टि--समानविषयत्वात् बाध्यबाधकस्प

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102