Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 28
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् व्यभिचाररहितमनाकुलमिति चेत् / न। प्रत्यक्षेण दीर्घकालानुबन्धाग्रहणात् / / ततः परो विकल्प एवावशिष्यते। तेन च नार्थप्रतिपत्तिः। ततोपि न व्यवस्था तस्यापि स्वरूपे प्रत्यक्षत्वात्। वस्त्वनुभवेन जनितो विकल्पः संवादीति चेत् / न। प्रतिबन्धाग्रहणात्। यदा वस्त्वनुभवो न तदा विकल्पः, स यदा न तदानुभव इति कुतोऽत्र सत्यार्थग्रहणं। विकल्पेनेति चेत् / अयमपि न प्रमाणम्। तस्यापि प्रतिबन्धसापेक्षत्वादपरो विकल्प इत्यनवस्था / एवन्तहि वासनयापि कथं सम्बन्धग्रहणं। न परमार्थतस्तयापीति पक्ष एवायमिति प्रतिपादितं। कार्यकारणभावाख्या वासनाभ्युपगम्यते। बाह्यार्थवादिभिर्बाह्यं न तु विज्ञानवादिभिः // 705 // __ वासनाजन्यतामन्तरेणापि विज्ञानमात्रकमेतदिति प्रतिपादितमेवेति न दोषः। ननु वासनाभाविता न जानविज्ञाने प्रतीयते। स्वप्नावस्थायां न स्वप्नप्रति भासनमिति समानमेतत् / उत्थितस्य भवति जाग्रदवस्थायां तु न तथेति चेत् / तदपि यत् किञ्चित्। तथाहि / उक्तमेतत्प्रबोधो हि स्वप्नेपि प्रतिवेदितः / ततः प्रवोधावस्था या न स्वप्नाद्भिन्न लक्षणा // 706 / / प्रबुद्धोहमिति स्वप्नेपि भवत्येव। ततः कथं प्रबोधप्रतिभ सतो व्यवस्था। अन्येन प्रबोधन सापि स्वप्नत्वमापादितेति चेत्। इयन् तु न केनचि.पीति। अतएव पदार्थव्यवस्थायद्यपि न तथा तथापि तत्समानत्वान्न प्रत्यास्थानं। अनुमानकालभाविनो हि धूमस्य नाग्निपूर्वक त्वसिद्वेरनुमानकत्वमपि तु तल्लणक्षत्वेन। एवमस्या अपि जाग्रदवस्थायास्तल्लक्षणत्वादेव तद्रूपता। ननु न तत्र भावनाव्यापार उपलभ्यते जाग्रदवस्थायां कथं स्वप्नतुल्यता। तदाह / भावनाव्यधानेपि भवत्येवावभासनं / बालदृष्टं यथा वृद्धावस्थायामुपलभ्यते // 707 // जन्मान्तरांदिदृष्टस्य मरणस्वापसम्भवे / जन्मान्तरोदयः स्वप्न इति किं न प्रतीयते // 708 // यथा रजनीस्वाप तथा मरणरजन्यामपि / दिने दिने दर्शनमत्र चित्रं स्वापप्रबोधात् न तथा किमेतत् / पूर्वस्य यद्दर्शनमेष हेतुः पदार्थदृष्टेरिति साम्यमेव // 709 // पूर्वदिनदृष्टं यया रजनीस्वप्नदर्शनस्य हेतुस्तथा पूर्वपूर्वदिनदृष्टमपररजनीव्यवहितदिनस्वप्नदर्शनमेवेति महतीयं स्वप्नपरंपरा। अपूर्वस्यापि दर्शनमिति चेत्, स्वप्नाभिमतेप्येवमेवेति सर्वं समान। गमनागमनं स्वप्ने यथान्यान्योपलम्भकृत् / गमनागमनं जाग्रत्स्वप्नेपि न किमिष्यते // 710 // व्यवहाराभावादिति चेत् अनेनैवानुमानेन विदुषां व्यवहार इति किन्न पर्याप्तं। यथा कार्यकारणव्यवहार आनुमानिकः तथायमपीति समानं। क्षणिकत्त्वे च न व्यवहार इति कि तेन न भवितव्यं / तदपि नेति चेत्। एतत्प्रतिपादयिष्यामः।। / ननु निद्रोपघातात्स्वप्नदर्शनमसत्यार्थमिति युक्तं। ननु परिस्फुरन्नेवासौ कथं स्वप्नः।। प्रारम्भे तु स्वत्वं नोपयुज्यते। तदेव तस्य प्रतिभासस्य कारणञ्चेत् / न। भावनाविशेषात्प्रतिभासविशेषदृष्टेः। समानेपि स्वापप्रारम्भे कश्चित्कथञ्चित् स्वप्नदर्शी भवति / तदभावेऽभावादिति चेत्। भवतु निमित्तमात्रत्वं तथापि न तस्य प्रतिभासविशेषकारणत्वं /

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102