Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 26
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् यदि पश्चाद्विचार्यमाणं स्वप्नज्ञानुमन्यद्वा परस्परं परमार्थतो भिन्नमभिन्नम्वेति भवेत्तथा ग्रहीष्यामः। तत्र यदि पराम ष्यमाण भेदे प्रमाणं किमप्यस्तीत्यभेदं प्रतिपत्स्यामहे। ततः क इवात्र विरोधः। पूर्व भेदग्राहकमप्रमाणमिति चेत् / भवतु को दोषः। पक्षादिप्रविभागो न भवेदिति चेत्। मा भूदिदानी किं नो विघटितं। इदमेव यदप्रमाणत्त्वमभेदसाधनस्य / एवं तहि। यत्साधारणधर्मित्वप्रतिपत्तिस्तथा सति / प्रमाणन्न भवेदन्यदप्येवं द्वारकं परं // 694 // वेदलक्षणप्रमाणाप्रमाणसाधारणमिप्रतिपत्तिरप्रमाणमेव स्यात्पश्चात्प्रमाणत्वसाधनेन निवर्तनात्। ततो धर्मिसाधनस्याप्रमाणत्वात्तद्वारेण प्रामाण्यसाधनमप्यप्रमाणं भवेदिति न वेदप्रामाण्यप्रसिद्धिः। ततः सकल एव साध्यसाधनव्यवहारो विशोर्येत / अथ धर्मिणः साधारणस्य ग्रहणेपि न तद्ग्राहकमप्रमाणं प्रामाण्यस्याधिकस्य तत्रैव साधनात्। यदि तत्प्रमेयोन्ममनन परेण स्यात् स्यादप्रामाण्यं / तदप्यसत् / यतः। प्रमाणत्वं हि तस्यैव स्वरूपं धर्मिणो यदा / तस्य तत्परिहारेण ग्रहणेपि कथं प्रमा॥६९५॥ प्रमाणस्वरूपं हि वेदवचनं तस्य तद्विपर्ययग्रहणे तद्विपर्ययप्रमेयोन्मूलने परेण कृते कथमप्रमाणता न भवेत्। नहि स्वरूपेणैव कस्यचिदाधिक्यं। अगृहीते तदाधिक्यव्यवहार इति चेत्। अग्रहणे कथं प्रमाणता (1) कस्यचिद्रूपस्य ग्रहणादिति चेत्। न। भेदाभावात् / व्यतिरिक्तधर्माभ्युपगमानवञ्चेत्। न। अनवस्थाप्रसङगात् / व्यतिरिक्तो यदा धर्मस् तेन योगः परो भवेत् / तेन योगः पुनस्तेनेत्यनन्तो धर्मविप्लवः // 696 // तद्युक्तरवं तयोरेव स्वरूपं यदि सम्मतं / प्रमाणत्वं तथा प्राप्तमस्माकं का विरोधिता // 697 // भेदेनापि गृहीतस्य समारोपस्य भावतः / परामर्शादभेदस्य प्रतिपत्तिः किमप्रमा॥६९८॥ अथापि स्याद् भवतोऽभेदं प्रतियतः कथं विवेकेन पक्षीकरणादिविभागेन साधनप्रवर्तनं / तदसत् / परप्रत्ययापेक्षयेदमनुवादमात्रकं स्वयमपि पूर्वाभ्यासेन साधनप्रयोग इति न किञ्चिदवा। ममाप्येवमासीदिति परः प्रतिपाद्यते। स्वप्नादिबाघधीवच्चेत् सकलः प्रत्ययो न किं / सालम्वनः प्रसाध्येत प्रत्ययत्वात्परैरपि // 699 // . यथा निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्त्वात्स्वप्नप्रत्ययवदिति तथा सालम्बनाः सर्वप्रत्ययाः स्वप्नबाधकप्रत्ययवदेव। अत्रोच्यते। प्रत्ययत्वाविशेषेण स्वप्नप्रत्ययतः परः / प्रत्ययोन्यो निरालम्ब इति किं प्रतिसाधनं / / 700 // यथा स्वप्नप्रत्ययत्त्वाविशेषाद्वाधकप्रमाणपरिनिश्चितनिरालम्बनत्वप्रतिबन्धादनालम्बनत्वसाधनं तथा यदि सालम्बनत्वमपि ततो विरुद्वाव्यभिचारीति नैकस्यापि प्रसिद्धिरिति तदेव निरालम्बनत्वं / न च सालम्बनत्वे साध्ये प्रतिबन्धः। अनुपलब्ध्या तुद्वयोरपि निरालम्बनत्वं / तथा हि। .. अदि me यथास्वरूपविन्मात्रादपरस्याप्रवेदनं / स्वप्नादिप्रत्यये जाग्रत्प्रत्ययेपि तथेयते // 701 // ___ नहि जानत्प्रतिभाससम्बिदितमपि परेण वेद्यते। प्रत्ययान्तरस्यैव तथा वेदनादित्युक्त

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102