Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 25
________________ 360 प्रमाणवात्तिक-भाष्यम् [ 3 / 331 चेत्। जाग्रत्प्रत्ययोपि तेनेति समानमेतत् / निद्रोपहते मनसि तस्य भाव इति न बाधकत्वं / यथोपहते चक्षुषि न केशादिदर्शनं तद्विपर्ययस्य बाधकमिति। तदसत् / सिद्धेनोपहतं चेतः केनेदं संप्रतीयतां / न तावत्तदवस्थायामिदमेवं प्रतीयते // 689 / / स्वपन् प्रत्येति व्युत्थितो वा / ननु स्वप्नेपि विद्यते सर्वमेतत्। तथा हि (1) स्वपन्तमात्मानं प्रत्येति प्रबुद्धं पुनरेति च। स्वप्नेपि तत्केन कृतो विभागो भवतोदितः // 690 / / स्वप्नेपि प्रबोधादिव्यवहारो दृश्यते। ततोऽयमपि प्रबोधादिव्यवहारोऽलक्षणत्वेनेक्षणात् कथं संप्रत्ययकृत् / अथ संप्रत्ययसम्वेदनादेवं,स्वप्नेप्येवमिति समानमेतत् / अथ स्वप्नेपि स्वप्न एष इति कदाचित्संप्रत्ययस्ततो नैवं। सत्त्यमेतदिति किं न संप्रत्ययोस्ति। ततः सत्यता भवतु। अत एवानवस्थितः स्वप्न इति चेत् / अयमप्यनवस्थित एवैश्वर्यादीनामनवस्थानादेव। सहेतुकमिहानवस्थानं अहेतुकं स्वप्न इति चेत्। तथा हि। झटित्येव स्वप्नदृष्टं नश्यति। वासनादाढZमेतन्नत्वर्थ एवं साधयितुं शक्यः। तथा हि / ने) प्रियादिदृष्टिरत्रापि झटित्येव विनश्यति / तत्स्वप्नेपि भवत्येव दिनं संततदर्शनं / / 691 // ननु स्वप्नास्वप्नप्रत्यययोविवेकसाधनं ज्ञानं प्रमाणमप्रमाणम्वेति द्वयी कल्पना। यदि प्रमाणं तदा सालम्बनं तदिति तेनानैकान्तः। अथ न प्रमाणन्तदा न पक्षदृष्टान्तप्रसिद्धिरिति कथमनुमानावतारः। कथं निरालम्बनत्वप्रसिद्धिः। / तदसत्। प्रमाणमेव तदिति न दोषः। न च सालम्बनं सकलं प्रमाणमनुमानस्य सालम्बनत्वाभावात्। अनालम्बनत्वेपीह व्यवहाराविसम्वादापेक्षया प्रमाणत्वात्। भेदश्च यद्यपि तयोः सिद्धः स्वप्नेतरविज्ञानयोस्तथापि न तत्साधकं प्रमाणं सालम्बनमिति न सर्वसालम्बनत्वप्रसङगः। यो लौकिकप्रतिपत्त्यैव तले भैदे प्रसाधिते / साध्यदृष्टान्तचिन्तेयं प्रतिभाससमाश्रयात् // 692 // . लोके तावदिदं स्वप्नविज्ञानमिदं जाग्रत इति विभागः प्रतीयते / ततस्तदाश्रयेण साध्यसाधनव्यवहारः। ततः पश्चाद्यदि परामृशतो न किञ्चिदत्र विभागकरणमुपलक्ष्यत इति साधयत्यभेदं तथा सति कः परस्य दोषः। यदि च दोष एवं स्यात् वेदप्रामाण्यसाधनेपि दोषो भवेत्। तथा हि। ... वेदो मी कथन्तस्य लौकिकाद्वचनाद्विवेक इति पर्यनुयुक्तेन किम्वक्तव्यं / यद्यप्रमाणं लौकिकवचनसदृशमिति कथन्तस्य विवेकेन धमित्वं। अथ प्रमाणत्वं प्रसाध्य विवेकं कथयेत् तथा सति कि साधनोपन्यासस्य फलं। तत एतच्चोद्यं कथं परिहर्त्तव्यं / नमान्यत एवस्वरवर्णानुपूर्वीविशेषाद्वेदस्य प्रबन्धभेदसिद्धिः। नान्येषामपि परस्परस्य तथा भेदसिद्धः। अथास्ति तावदेष प्रबन्धः किमयम्वेद उत नेति विचार्यमाणो यदि प्रमाणं भविष्यति वेद एवान्यथा नानेन प्रयोजनमिति परित्यक्ष्यामः। एवं तहि समानमिदमिति परित्यक्ष्यामः। एवन्तर्हि समानमिदमत्रापि प्रत्ययस्तावदीक्ष्यते। स्वप्नप्रसिद्धिरस्मात्किं भिन्ना नो वेति कल्पने या वा भविष्यति परं तथा द्रक्ष्याम इत्यपि // 693 // .. B. तत्स्वप्नदर्शना-इति बहिःपंक्ति पाठः / .

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102