Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 20
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् कतो 355 स्वरूपेण प्रतीतेपि तदसाक्षात्कृतं यदि। नीलरूपस्य सम्वित्तेर्भेदस्तहि कथम्भवेत् // 635 / / प्रतीतिभेदाद् भेदो हि नीला देरेकरूपता। भिन्नेन्यस्मिन्कथम्भेदस्तदन्यस्य प्रमान्वितः // 636 / / तत्संसर्गात्तथात्वञ्चेदपरोक्षः कुतो भवेत् / तदेकताप्रपन्नस्य ततो भेदः कुतो मतः // 637 / / अन्वयव्यतिरेकाभ्यां भेदोपोद्धारिको न सन् / न हि प्रत्यक्षसम्वित्तिरन्वयव्यतिरेकयोः // 638 // अनुमानात्प्रतीतिश्चेन्नानुमाध्यक्षपूविका। तदभावेनुमाभावे भवेद धपरम्परा // 639 / / 4 व्याप्यस्यापि हि तद्भावो व्यापकेन विना कथं / अप्रतीतं कथन्नाम तदा व्यापकमुच्यते // 640 // .. यदि हि तदा प्रतीयते प्रतीत्यतर्गतमेव कथमर्थता। अथ नं प्रतीयते कथं व्यापकताप्रतीतिः। व्यापकत्वेन प्राक् प्रतीतमिति चेत् / किमिदानीमनुमानेन। एतत्कालता न प्रतिपन्ना, ततोनुमान न व्यर्थे / कथन्तहि व्यापकताप्रतीतिः / प्रागिदानी प्रतीतिर्न कथं व्यापकतागतिः। प्रतीतिमात्रकन्तच्चेत्कथं व्याप्तन्तदुच्यते // 641 / / धूमाकारा प्रतीतिहि न विना पावकं यदि / पावकप्रत्ययोप्पेष विना पावकमिष्यते // 642 / / पावककार्यो धूमः कथं प्रतीतिमात्र। तदसत्। तथा हि। सति पावककार्यत्वे धूमादेर्बाह्यरूति।। बाह्यत्वे च प्रसिद्ध स्यात्तस्य पावककार्यता // 643 // तदिदमितिरेतराश्रयणव्यवस्थितवस्तुकमनुपन्यसनीयमेव / अनेन प्रत्यभिज्ञाज्ञानमवे. ज्ञातं। य आह प्रत्यभिज्ञाबलादेव विज्ञानमात्रता निराक्रियते। तथा हि। यदि सम्वेदनान्तस्थः प्रत्यभिज्ञा किमर्थिका / अथासम्वेदनोर्थात्मा कथं विज्ञप्तिमात्रता // 644 / / नहि मध्यसत्तार्थस्य प्रत्यभिज्ञया प्रतीयमाना सम्वेदनान्तर्गतापरोक्षतया प्रतीतेरिति / तदसत्। तथा हि। परोक्षतयापि प्रतीतिः प्रतीत्यन्तर्गतत्त्वमेव वस्तुनः प्रतीत्यन्तर्गतस्याप्रतीतेरिति चेत् प्रतिपादितं। अप्रतीत्य मध्यसत्तामन्तरेण कथं प्रत्यभिज्ञेति चेत् / पूर्वपरयोः समानजातीयत्वप्रतीतिमात्रकादेव दृष्टा, तथैव भविष्यति हिणारेण, लूनपुनर्जालकेशनखप्रत्यभिज्ञावत् / अथ तत्र जात्यादिविषयः प्रत्यभिज्ञाप्रत्ययः जातिरेवैकेति प्रतीयतां ततो व्यक्तरेकता न सिध्यति / न च जातिरपि मध्ये विद्यते। प्रमाणाभाघांत् / प्रत्यभिज्ञा प्रमाणमिति चेत् / न। स्वरूपमात्रमेव पूर्वापरं प्रत्यभिज्ञाया निबन्धनमिति तदेवालम्बनं प्रत्यभिज्ञायाः। न च तदेव प्रत्यभिज्ञाज्ञानं मध्यरूपालम्बनं, मध्यरूपस्यावेदनात् / न खलु परोक्षमदृष्टमालम्व्यते। दृष्टत्वे च तदपरोक्षत्त्वाद्विज्ञानमेव / ननु परोक्षं चेत्क विज्ञानं| यस्यामवस्थायामस्ति तस्यामपरोक्षमेंव। इदानीमतीततया परोक्षत्वेपि न विज्ञानत्वहानिः / यदि स्यावर्थस्याप्यर्थत्वहानिः स्यात् / * अर्थस्याप्यतीतत्वेर्थत्वहानिः समस्त्येवेति चेत् / न तहि मध्यसत्तायामर्थत्वं तस्या अप्यतीतत्त्वात् / / अतीतत्वेपि परोक्षतायामप्यर्थत्वं नापति विरोधाभावात्। सम्वेदनत्वं त्वसम्बिदितस्य कथमिति चेत् / अर्थत्वमपि तहि कथमनर्थक्रियाकारिणः। न हयसम्बिदितमर्थक्रियाकरणसमर्थ / अनुमानेन तस्य वेदनं प्रत्याख्यातं / अन्येन मध्ये वेदने तदेव विज्ञानत्वं न चान्येन विदितत्वं प्रत्यभिज्ञायते। ततस्तेन सहकता नास्ति।। प्रत्यभिज्ञात एकत्वाप्रसिद्धः। अनुमानाकारश्च वासनाबलादुत्पत्तरेक एव विज्ञानात्मना ततो वासनात एव सकल आकारः परिस्फुटप्रतिभासोपि। 1 B टि-प्रतीतिभेदाद् यदि न भेद एकता नीलादेः

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102