Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 19
________________ प्रमाणवात्तिक-भाष्यम् [ 3 // 331 नहि स्वेनैव रूपेण कस्यचिद्विरोधः, तथा चेत् न किञ्चिद् भवेत् स्वेन रूपेणेति सकल. मस्तंगतं भवेत्। छेदस्तु पुनविशिष्टोत्पादनं न च तेनैव तस्योत्पादनं। अयमेवार्थः स्वात्मनि क्रियाविरोध इति। स्वप्रकाशरूपन्तु तस्य स्वरूपं न तेनैव विरुध्यते। कुतस्तदिति वक्तव्यं स्वहेतोस्तथाभूतादिति। यदि स हेतुर्नास्ति तदा युक्तम्भवेत् नान्यथेति न्यायः। तत इदम्परेण वक्तव्यं स्वप्रकाशकत्त्वमेव न दृश्यते। तत्र चोत्तरमुक्तमेव सर्वस्य स्वरूपेण प्रकाशनादिति। पुनरप्युच्यते। तस्याश्चार्थान्तरे वेद्य दुर्घटौ वेद्यवेदको। ... अर्थान्तरभूता बुद्धिः स्वप्रकाशान्यथा वा भवेत्। यदि स्वप्रकाशा स्वरूपेण प्रकाशते, / ततोन्योर्थस्तया प्रकाश्यत इति* नाप्रकाशे तस्मिन् व्यपदेशस्तथा भवेत् / प्रकाशते चेत्सोपि तथैव प्रकाशते तदैवेति कथं तस्य परेण प्रकाशनं। नहि तदा विशेषः प्रकाश्यप्रकाशकयोः / क्रमेण तद्वयापारात्प्रतिपत्तिविशेषस्तस्येति चेत्। तथा हि। . ढौक्यमाने प्रदीपादौ विशेषस्तस्य गम्यते। ततस्तयोईयोस्तत्त्वं तथोत्पादो न किम्मतः।।६३२।। विशेषः प्रकाशत इति / / स्वेनैव रूपेण तस्य प्रकाशनं ततः स्वरूपस्यैव तथा प्रकाशनं / ततः स्वप्रकाशनमेवान्तेपि / अथ स्वयं प्रकाशत 'इति न प्रतीयते। व्यवहार एवम्भूतो न भवति तत एवं, उच्यते। नन्वनुभवानुरूपो व्यवहारः प्रमाणयितव्यो न सर्वः।। अथ सर्व एव व्यवहारः प्रमाणं तथा सति न किञ्चित्प्रतिवादिबोधनाय वक्तव्यं / तस्माद्यथा प्रतीयते तथाभ्युपगमः। . ननु सम्वेदन-नाम न परोक्षं युक्तं तथा सम्वेद्यं न सर्वदा तथेति' न्यायः। सम्वेद्यस्य परोक्षतापि युक्ता। यदि तु सर्वदा सम्विवितमेव, ज्ञानार्थयोर्भेदो न गम्यते। तदयुक्त। सम्वेद्यतातिरेकेण न नीलादि प्रतीयते / असम्वेद्ये प्रतीतिश्चेत्तदभावे कथम्भवेत् // 633 // असम्वेद्यमेव प्रतिपन्नमिति व्याहतं। तयाँ चायमर्थः स्यादप्रतीतं प्रतीतमिति / अथाप्रतीयमानं प्रत्यक्षेणानुमानेन प्रतीयते। तदप्यसत्। प्रतीयमानताव्यतिरेकेण नार्थः। पर इति पक्षो न तु प्रत्यक्षप्रतीततवेति। अनुमानप्रतीतिरपि स्वरूपे प्रत्यक्षप्रतीतिरेव प्रा।। ननु ततः परोपि तत्रार्थोस्ति परेण दृश्यमानोऽन्यथा वा। न। प्रतीत्यभावाद' प्रतीयमानमस्तीति कुत एतत्। अनुमानेनैव प्रतीयत इति चेत्। अनुमानतव तहि न स्यादर्थस्य साक्षात्करणात्। असाक्षात्करणेनेति चेत्। किमिदं तच्च नास्ति तच्चास्तीति युक्तं / असाक्षात्करणं प्रतीतिरिति कोर्थः। स्वरूपं चेत्प्रतिपन्नं तदेव साक्षात्करणं न चेदप्रतीतमेवेति न्यायः। कृत तिपय स्वरूपेण प्रतीतञ्चेत्साक्षात्करणमेव तत्। स्वरूपेणाप्रतीतञ्चेत्सर्वथास्याप्रतीतता // 634 / / . B टि–सम्विदितं 2 B टि-अनुमानविषयातिरे (के)ण नार्थः बाह्यः / अथवा नार्थ इति प्रत्यक्षप्रतीतिरेवास्ति नार्थ इति नादरो विषयः 3 B टि–पश्चादात्मनापि दृश्यते

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102