Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् 353 कथन्तहि योगिनां परचित्तप्रतिपत्तिः। एतदुत्तरत्र प्रतिविधास्यते। तस्मात्स्वयमेव. स्वरूपप्रकाशकत्वात्तथा भवति। एवन्तहि स्वरूपानुभव इत्यस्तु कथं नीलानुभव इति ख्यातिः। अत्राह। (ग) नीलाद्यनुभवप्रसिद्धिः नीलादिरूपस्तस्यासौ स्वभावोनुभवश्च सः। नीलाद्यनुभवात् ख्यातः स्वरूपानुभवोपि सन् // 329 // नीलरूपत्वान्नीलानुभव न तु नीलस्यापरोनुभवः। शुद्धस्यानुभवस्याभावात्। यो हि यदव्यतिरिक्तः स तद्रूपेणैव व्यवहारविषयः। तथा हि यदि शुद्धः स्यात्तथैवाध्यवसीयते / व्यतिरेकः स्वरूपेपि दृश्यते न ततस्तथा // 628 // . नीलानुभव इति यथा ख्यातिस्तथैवासौ नीलस्वरूपतयाऽनुभवरूपतया भवतीति युक्तं / न च व्यतिरेकव्यपदेशमात्रकादेव भेदः / व्यतिरेकव्यपदेशो हि यथा कथञ्चिद्वासनाबलादति भवन्नुपलभ्यत इति प्राक्प्रतिपादितं। ननु नीलं कथमात्मरूपं प्रकाशयति। नहि प्रकाश्या घटादयः प्रदीपादिनां स्वप्रकाशकाः। आत्मनि क्रिया विरुध्यते। न हि सैवासिधारा तयैव च्छिद्यते। अत्र परिहारः। प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः / यथा प्रकाशोभिमतस्तथा धीरात्मवेदिनी // 330 // (अवेद्यवेदकाकारा स्वात्मनि क्रियाविरोध इति कुतः प्रमाणादवगतं। नहि दृष्टान्तमात्रादर्थस्य प्रसिद्धिः। समीहितस्य विपर्ययेपि दृष्टान्तस्य प्रदीपस्य सम्भवात्। यदि घटः प्रदीपेन बाहयात्मना प्रकाश्यते। प्रदीपोपि तथाभूतेनापरेणेति न पर्यनुयोगः। न च घटोपि प्रदीपेन प्रकाश्यते। अपि तु तथाभूतस्यैव तत उत्पत्तिः। अथ प्रदीपोप्यपरेण चक्षुरादिना प्रकाश्यते। न / चक्षरादेः सकलघटादिसाधारणत्वेपि चक्षुषि मसात्यपि प्रदीपमपेक्षते प्रकाशकं घटस्तथा प्रदीपोपि स्यात्। अथ घट उत्पद्यत एव तथा प्रकाशनन्तु तस्य चक्षुरादिभिः। एवन्तहि / अप्रकाशेपि बाहयेथे यथा दीपात्प्रकाशनं / व्यपदेशस्य विषयश्चक्षुरादेरपीष्यतां // 629 / / यथा ततस्तथाभूतरूपोत्पत्तावपि प्रदीपात्प्रदीपाभिव्यक्तो घट इति व्यपदेशः। तथा चक्षुरादिकादपि तथोत्पत्त्यैव व्यपदेशः।। अथ द्वयमपि प्रकाशकं घटादेः, प्रदीपादेस्त्वेकमेव / एवन्तहि। एकं कस्यचिदन्यस्य द्वयमेव प्रकाशकं / यथा सम्भवतोन्यस्य नैकमप्यस्तु का क्षतिः // 630 // अत्यन्तमशक्तस्य द्वयमपरस्यकमन्यस्य नैकमपीति वस्तुस्वभाव एष इति को वात्र क्षतिः। अथ स्वात्मनि क्रियाविरोष इत्युच्यते। यदा स्वरूपन्तत्तस्य तदा कैव विरोधिता / स्वरूपेण विरोधे हि सर्वमेव प्रलीयते // 631 / / 45

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102