Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ अर्थसंवेदन-चिन्ता ] ... प्रत्यक्षम् 351 विषयत्त्वमेव विज्ञायते च। तथा हि सकलो लोकः१ स्मरणादर्थवेदनं लक्ष्यते / अनुसरनस्मात्साक्षादानिरीक्षते/ सकलमेव स्मरणमर्थानुभवे प्रवर्त्तमानमुपलक्ष्यते यदा न स्मृतिविप्रमोषः। ततश्चानुभवविषयत्त्वमस्यष्यत एव। न चाभ्युपगम एव दोषाय। किं च / निविषयमेतत्स्मरणमस्य किं विषयचिन्तया। अत्र क्रमः / यद्भावनाबलास्येष्टा (?) तमुपजायते पूर्वकान्नीलानुभवात्तस्य स पूर्वको विषयः प्राप्तः।। कथन्तस्य समनन्तरमिति चेत्। तादृशस्यापरस्य समानजातीयस्य सम्वेदनस्यान्तरालभाविनोऽभावात्। कथन्तज्जनकमिति चेत् / दत्तमत्रोत्तरं। व्यवहितमपि जनकमिति प्रतिपादितमेतत् / अथवा विकल्पाकार एव भावनातः स्पष्टाकार एव भावनातः स्पष्टाकारजनको विषयः स्यात्। ततस्तत आकारान्नार्थस्य व्यवस्था। भावनाबलादेव समानजातीयादयमाकारो यज्जातीय इति न्यायादवतिष्ठत इति नार्थपरिकल्पनायां न्यायः तस्मात्समनन्त (विज्ञानमेव विषयः। एवन्तर्हि / (ख) दृश्यदर्शने प्रत्यासत्तिविचारः इदं दृष्टं श्रुतं वेदमिति यत्रावसायधीः / स तस्यानुभवः, सैव प्रत्यासत्तिविचार्यते // 325 // दृश्यदर्शनयोर्येन तस्य तत्साधनम्मतं / तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः // 326 // यदि निश्चयादर्थव्यवस्था निश्चयः किल नार्थादन्यत्र। नहि समनन्तरप्रत्ययादयमिति निश्च यः)। अपि त्वविषयोऽयं ममानुभवो न समनन्तरप्रत्ययविषय इति। न यर्थानुभवमन्तरेणार्थ इति निश्चयो युक्तः। अनुभवानुसारित्वान्निश्चयस्य। ' __ अत्रोच्यते। अनुभवान्नार्थव्यवस्था किन्तहि तदनुसारिणो निश्चयादिति। तदेतदायातमर्थ एकः पन्यानं न प्रतिपद्यते। तेनाकृष्यमाणो द्वितीय इति महदद्भुतं। तथा हि। साक्षादुत्पत्तिमानर्थात्प्रत्ययो यः स नेक्षते / तमर्थमपरस्तस्मान्न्यूनोपीत्यतिसाहसं // 626 / / अनुभवानुसारी निश्चयस्ततो निश्चयादेवावगम्यतामर्थानुभवोसौ न स्वरूपमात्रस्येति / अन्यथा तथैव निश्चयो भवेदिति चेत् / तदेतदसत्। नन्वनुभव एव न ज्ञायते कस्येति कथमनुभवानुसारित्वं प्रसिध्यति / कुतस्तहि निश्चय इति चेत्। अभ्यासादेवेति प्रतिपादितं / / सोप्यभ्यासोऽनुभवादेवेति कुतो विपरीतनिश्चयः।। अयमप्यपरिहारः। यत एवं सति न कस्यचिद्विपरीतनिश्चयः स्याद् दृश्यते च। तस्मादयुक्तमेतत् / नन्वालोचनमात्रमविवेककारि ततो निश्चयादेवार्थानर्थविवेकः। यद्येवं निश्चयोपि न विवेककारी स्यात्। नहि द्विचन्द्रप्रत्यय एकचन्द्रनिश्चयकारी। अथाभ्यासानिश्चयो विवेकसाधनं। न(1)अभ्यासस्याहेतुकत्वात् / प्रतिनियतानुभवे हि तन्नियतोऽभ्यासः सत्यतां यायात् (?) / अर्थ इत्यपि निश्चयोर्थक्रियाकारित्वाभिप्राय एव / सा चार्थक्रिया प्रतिभासान्तरमेव। न च प्रतिभासात्प्रतिभासान्तरस्यानुदयः। तस्मान्न निश्चयादर्थव्यवस्था। ' इदं वाक्यं च भोटभाषान्तरे। तद् दर्शनं मतम् 4

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102