Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 21
________________ साथ 356 प्रमाणवात्तिक-भाष्यम् [ 33331 ननु वासनाया एकरूपत्वादाकारभेदो विज्ञानानां कथं / वासनाभेदाद् भेद इति चेत्। यदि वासना नीलपीताद्यनन्तभेदा विज्ञानस्य जनिका तदाकारताया; बाहास्यास्याश्च को भेदः। वासनेति हि नाममात्रमेव / तदसत्। वा स ना पूर्वविज्ञानकृतिका शक्तिरुच्यते / तरया अमूर्तताभावात् कथमर्थसमानता // 645 / / वासनेति हि पूर्व विज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः / अर्थस्तु पुनर्मुर्तरूपः सदोपद्रवदायो। नन्वर्थोपि सम्बिदितावस्थायामेवोपद्रुतिहेतुन सदा। ततो वासनाबलादुदयभावी प्रतिभास उपद्रुतिहेतुरर्थो वेति कोनयोर्भेदः। तदसत् / अविशेषेपि वाय-य स्पष्टत्वादेविशेषतः / भावनाया विशेषेण नार्थस्य प्रतिभासनं // 646 / / भावनाबलायातत्त्वे हि विपरीतवासनाविनिवृत्तौ स्व()भीष्टवासनासमागमसमयेऽनभीष्टविनिवृत्तिरिष्टस्य च प्राप्तिरिति महानेष भेदः। ततो बुद्धिरूपवासनाकृत एव सकलो भेदावभासः / ननु वासनाया एकविज्ञानात्मभूतत्वात्प्रबोधके सति सकलवासनाप्रबोधादनन्तप्रतिभासविज्ञानोदयः स्यादिति महदसमञ्जसं। बाहयाभ्युपगमे तु न दोषः। य एव सन्निहितोऽर्थः स एव दृश्यते। न। असन्निहितस्यापि दर्शनाभ्युपगमात् / तथा हि। विप्रमोषः स्मृतेरिष्ट: कैश्चित्तु विपरीतचित् / असत्ख्यातिः परैरन्यैः सव्वं सर्वत्र विद्यते // 647 / / येषान्तावत्सव्वं सर्वत्र विद्यते तेषां समान एव दोषः। असत्ख्यातावपि सकलासत्तप्रतिभासनप्रसङग। यस्य तु स्मृतिविप्रमोषः तस्याप्यनेकदर्शनं पूवं कस्मानानेकदर्शनं समानमेतद्विज्ञानवादेपीति न दोषवान् / विज्ञानं वा पूर्ववृत्तं स्मर्येतार्थो वेति को भेदः।' विपरीतख्यातिरपि पूर्वदृष्टे प्रवर्त्ततामन्यथा वा किन्न सर्वत्रेति समानः पर्यनुयोगःपुनरपि तत्र स एव वासनानियमो वक्तव्य इति समानं / न च समनन्तरविज्ञानात्मभूता वासनेष्यते। (पटुप्रकाशः पूर्वात्मप्रतिभासो हि वासना (1) तथाभूतात्मसम्वित्तिजनकत्वाद्विना कुतः / / प्रबोधक य सद्भावे धियां जन्म यथायथं / नीलपीतादिनिर्भा (स) सङगतानामितीक्ष्यते // 648 / / इदिदमेवात्रेक्ष्यते पूर्व विज्ञानमभिमतेतरप्रतिभासं पाटवादिप्रकाराधिष्ठितं ततस्दतेनन्तरं कालान्तरे वा तथा भूतम्विज्ञानमुदयवत्। जाग्रदृष्टं स्वप्नप्रतिभासं जनयीत यथा / व हितात्कथमुत्पत्तिरिति चेत् / दृष्टाः स्मृति स्वप्नविज्ञानादयो व्यवहितादपीति न दृष्टे ऽनिष्टनाम। ननु नासौ जनाय त्यथ प्रणिधानादेस्तदेव प्रतिभाति / न। अतीतस्य प्रतिभासा, भावात्। अतीतमपि प्रतिभासमानं दृष्टमिति चेत् / असत्प्रतिभासत इति कोर्थः। तदाकारा प्रतीतिरित्ययमेव। तस्मादनुभवात्स्मृतिरुदयमासादयन्ती तस्यैव शक्तिविशेषमावेदयति। स C. 33a6-34a3 पृष्ठयोः मोटग्रन्थे प्रमादतो लब्धो मागोत्र 45-46 पृष्ठयोरुपलभ्यते /

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102