Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 350 प्रमाणवात्तिक-भाष्यम् [ 3 / 324 कारेण बहिरेव कल्प्यत इति चेत्। किन्दर्पणमुखाकारेण तद्देशस्य मुखस्य कल्पना। ततः सकलमेवात्मस्थं मुखवत्प्रतिविम्बरूपेण प्रतिभातीति कल्पनीयं / TH __सरूपयन्ति तत् केन स्थूलाभांसश्च तेणवः // 322 // अणव एव यदि विषयस्ततः स्थूलाभासविज्ञानमिति सारूप्याभावात्कथम्बिषयो विज्ञानस्य / वृक्षादिपिण्डग्रहणवद् भ्रान्तमे (व) भवेत् / वर्णाकारतया सरूपयन्तीति चेत्। न। वर्णव्यतिरेकेण संस्थानाभावात् / वर्णात्मकसंस्थानवत्त्वे स्थूलतव प्राप्ता। अथ स्थूलता ग्रहणधर्मः। वर्णस्तु ग्राहयधर्मः। बहुषु गृहरमाणेषु स्थूलमिति भवति व्यपदेशः। न स प्रत्येकं परमाणुषु। नीलादिता तु प्रत्येकमतोऽसौ ग्राह्यधर्मः। यद्येवन्तथा सान्तराणामनन्तरत्वग्रहाणभ्रान्तिरेव। नाविषयतयान्तरस्यामि प्रतिभासनादिति चेत् / यद्येवं सर्वसामोपाख्याविरहलक्षणं निरुपाख्यमिति भाव एवान्तरस्य। ततो निरन्तरमेव वस्तु परिकल्पनीयं। निरन्तरस्यायोगादिति चेत् / नहि वस्तु सावयवं युक्तं / विज्ञानवत् निरवयवमेव वस्त्विति परमाणुप्रसिद्धिः। न। प्रतिबन्धाभावात्। प्रत्यक्षबाधितोत्वाच्च प्रतिज्ञाया एतदयुक्त। प्रत्यक्षमन्तरेण चानुमानाभावात्। स्थूलं सूक्ष्मोपचयरूपमेवेति चेत् / दतमत्रोत्तरं प्रागिति न पुनरुच्यते। nde तन्नार्थरूपता तस्य सत्त्याव्यभिचारिणी। तत्संवेदनभावस्य न समर्था प्रसाधने // 323 // . . अर्थरूपता सत्यपि व्यभिचारिणी ।ततो न भावनार्थसम्वेदनमिति सिध्यति। नहि व्यभिचरनेव साधयत्यव्यभिचारार्थत्वात्साधनार्थस्य। व्यभिचारिणोपि साधनत्वे सर्वः सर्वस्य साधनम्भवेत् / अस्तित्वेन व्यवस्थानं साधनं / व्यभिचारस्तु कदाचिदसौ नास्त्यपीति नास्तित्वं पाक्षिकमाक्षिपति। तदिदमस्तित्त्वमितरच्चैकदैकत्र विरुद्धं। तस्मान्नीलादिरूपता मात्रादेव विज्ञानस्यार्थसाधनता नेत्यकान्तः। अपि च सम्वेदनानामर्थानाञ्च सारूप्या - तेषां परस्परं सम्वेदनभावः। न हि सन्तानान्तरसम्वेदनसरूपमपि वेदकं वेद्यम्वा। तत्सारुष्यतदुत्पत्ती यदि संवेद्यलक्षणं / संवेद्यं स्यात्समानार्थे विज्ञानं समनन्तरं // 324 // यदि यत उत्पद्यते सरूपं च तेन तस्य वेदनं तदा तहि अनन्तरविज्ञानं तुल्यविषयं विषयः ." स्यात् / यदा पूर्वकमपि नीलाकारमुत्तरमपि ततः समनन्तरादुदयवत् / तदा पूर्वकस्य सरूपकत्वा'दुदयकारणत्वाच्च विषयवत्त्वं प्रसक्तं। अथ यत उत्पत्तिमानीलादिक आकारः स तस्याकारवान् विषयः। समानविषयविज्ञाने तु य आकारः स न समनन्तरादन्यथा नीलाकारसमनन्तरात्पीतविज्ञानं न स्यात् / ततो लग्यते (?)भवति नीलाद्याकारः समनन्तरप्रत्ययकृत इति न तस्य . विषयत्वं / / अपरे व्याचक्षते। नीलसमनन्तराद्य दा सविकल्पकं नीलाकारमुदयमासादयति तस्य स पूर्वको विषयः स्यादाकारकारित्वात्तस्य। तदप्यसविष्यत एव स्मरणस्य सम्वेदन - B. सत्याम्वा व्यभिचारिणी। 2 B. टि–सन्तानान्तरवर्तिनामर्थानां सजातीय पटानां न च तेषां परस्परं सम्वेदनमस्ति / ज्ञानानां सादृश्येपि न वेदनं तदेवाह नहीति /

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102