Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 889
________________ काव्यमाला। प्रदक्षिणयितुं मुदारभत गीतिभिः सुभ्रुवां सुमेरुमुडुमालयेव सममौषधीनायकः ।। ९४ ॥ स व्रतिक्षितिशतक्रतुः हीरविजयसूरिराज: सुभ्रवां स्त्रीणां गीतिभिर्मङ्गलगानैः समं जिनेन्द्रभवनं भगवत्प्रासादं मुदा हर्षेण प्रदक्षिणयितुं त्रिः प्रदक्षिणागोचरीकर्तुमारभत । प्रारब्धवानित्यर्थः । किंभूतो व्रतिपतिः । शमः शान्ति म तस्य वा पद्मा लक्ष्मीस्तया संगतः सहितः। किंभूतं जिनेन्द्रभवनम् । शिखायाः शिखरस्य उदयेन उच्छ्रायेन। 'उ. च्छेद उदयोच्छ्रायौं' इति हैम्याम् । उच्चत्वेन कृत्वा नभ आकाशं परीरम्भते आलिगतीत्येवंशीलम् । भवनशब्दः पुनपुंसकलिङ्गे । 'भवनभुवनयानोद्यानवातायनानि' इति लिङ्गानुशासने । तेन पुंलिङ्गविशेषणम् । क इव । औषधीनां नायक इव । यथा औषधीनाथश्चन्द्र उडुमालया नक्षत्रश्रेण्या समं सुमेरुं वर्णाचलं प्रदक्षिणयति प्रदक्षिणीकृत्य भ्राम्यति दक्षिणपार्श्वे प्रणीय पर्यटति ॥ स देवकुलिकान्तरे जिनपुरंदरान्समदा-. दवन्दत तदा जिनाधिपतिकेतनस्याभितः । . . मरुद्वसतिवत्ततः सुरपरम्परोपासिता ... व्यलोकि विभुना पुरः प्रमुदितेन राजादनी ॥ ९६ ॥ तदा प्रदक्षिणादानन्दसरससूरिर्जिनाधिपतिकेतनस्य मूलचैत्यस्याभितः परितश्चतुदिक्षु देवकुलिकानां लघुदेवगृहाणां 'देहरी' इति प्रसिद्धानामन्तरे मध्ये जिनपुरंदरान् भगवत्प्रवरप्रतिमाः संमदादानन्दादवन्दत नमस्करोति स्म । ततः कतिचिद्देवकुलिकासु जिनबिम्बवन्दनानन्तरं प्रमुदितेन हृष्टमनसा विभुना गणवामिना गुरुणा पुरोऽप्रे राजादनी क्षीरिका 'रायणि' इति प्रसिद्धा । 'नवनवति पूर्ववारान् यस्मिन्समवसरय. युगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥' इति पूर्वसूरिकृतस्तुतौ । व्यलोकि दृष्टा। किंभूता। सुराणां चतुर्निकायिकदेवानां परम्पराभिः श्रेणीभिरुपासिता सेविता । केव । मरुतां भवनपतिव्यन्तरज्यौतिष्कविमानिकानां वसतिर्निवासस्थानमिव । यथा मरुद्वसतिः सुरालीभिः परिशीलिता आस्ते ॥ अवऱ्यात स मौक्तिकै रजतहेमपुष्पव्रजै__र्जगद्गुरुरिवाङ्गिभिः सुमनसां समूहैः श्रिता । गिरेरिव धनागमोन्नमदमन्दकादम्बिनी ववर्ष पयसां भरैः शिरसि संघभर्तुश्च या ॥९६ ॥ या राजादनी अङ्गिभिर्यात्रिकसंघलोकैः सह मौक्तिकैर्मुक्ताफलैर्वर्तन्ते ये तादृशा रजतानां रूप्यसंबन्धिनां हेनां सुवर्णसंबन्धिनां पुष्पाणि कुसुमानि अथ वा रजतानि

Loading...

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980