Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 917
________________ ८५६ काव्यमाला। तमालास्तापिच्छाः, येषां तमालपत्राणि भवन्ति यत्पत्राणि पूर्वदेशे दक्षिणदेशे कर्णाभरणीभवन्ति वा । यदुक्कं नैषधे-'श्रवणतमालदलाङ्करं शशिकुरङ्गमुखे सखि निक्षिप । किमपि तुन्दलितः स्थगयत्यमुं स यदि तेन तदुच्छ्रसिमि क्षणम् ॥' इति विरहा. वस्थायां चन्द्रोदये दमयन्तीवाक्यम् । तालास्ताडतरवो गुर्जरेषु प्रसिद्धाः । दक्षिणदिशि च राजताला अपि भवन्ति येषां पत्रैः पुस्तकानि लिख्यन्ते तैः। तथा कदम्बनीपा धाराकदम्बा धूलीकदम्बा वा । द्वये अपि चम्पूटिप्पनके प्रोकाः सन्ति । जम्बीराः प्रसिद्धाः। सह निम्बेन पिचुमन्देन 'नींबडा' इति प्रसिद्धेन वर्तन्ते यास्तादृश्यः, जम्बू श्यामफलाः प्रसिद्धाः । अथ वा निम्बजम्बूभिः स हितैः सर्जा देवदारवः । अर्जुनाः शास्त्रे देवविशेषे वार्बुदसमीपे च प्रसिद्धाः तैः, तथा अञ्जना वृक्षविशेषाः, वझुला वानीराः, तथा कङ्केलयः अशोकाः केसरा नागकेसरा एतैर्वृक्षर्या शत्रुजया सरित् उपास्यते सर्वकालं सेव्यते। किंभूता । यावन्ति त्रैलोक्यलोकवर्तीनि सर्वजातीयानि वा मनसामभीप्सितानि कामितानि तेषां दाने प्रपूरणे दक्षा कुशला। कामितकामधेनुरित्यर्थः । उत्प्रेक्ष्यते-आत्मसुखेषु विषये खःसालतायाः कल्पद्रुमभावस्य स्पृहया वाञ्छया वृक्षलक्षैः संसेव्यते । कामितकामदुघां शत्रुजयां सरितं संसेव्य वयं कल्पवृक्षभावं भजाम इतीच्छयैव ॥ युग्मम् ॥ कदा पुनर्दर्शनमस्य भावि ध्यायन्निदं खीयहृदा मुनीन्दुः । तीर्थ स तीर्थेशमिव प्रणम्य पथि प्रतस्थे प्रथितावदातः ॥ २५ ॥ स मुनिहींरसूरीन्द्रस्तीर्थेशं जिनमिव शत्रुजयाद्रिं प्रणम्य ललाटघटितकुड्मलीकृतकरकमलो नमस्कृत्य पथि द्वीपोन्नतपुरपद्धतौ प्रतस्थे प्रचचाल । स किंलक्षणः । प्रथितो जगद्विख्यातोऽवदातः अकबरसाहिप्रतिबोधनलक्षणं चरितं यस्य । स किं कुर्वन् । इ. दमत्रैव वृत्ते प्रोच्यमानमेतत्खहृदा निजमनसा ध्यायन् चिन्तयन् । इदं किम् । यदस्य तीर्थाधिराजस्य पुनर्द्वितीयवारं कदा कस्मिन्काले मम दर्शनमवलोकनम् । यात्रा इत्यर्थः । भावि भविष्यति ॥ मेरूनिव क्वापि सुवर्णवान्कुत्रापि रौप्यानिव शर्वशैलान् । . अप्याश्मगर्भानिव विन्ध्यभूधान्सिद्धाद्रिकूटान्पथि दृष्टवान्सः ॥२६॥ पथि मार्गे सिद्धाद्रेः पुण्डरीकपर्वतस्य कूटान् शिखराणि । कूटशब्दः पुनपुंसकलि. गयोः । यथा-'ध्वजमलयजकूटाः कालकूटारकूटी' इति लिङ्गानुशासने । दृष्टवान्पश्यति स्म । किंभूतान् कूटान् । क्वापि कुत्रापि प्रदेशे सुवर्णैः शोभनवर्णैर्वान् वर्णनीयान् । कानिव । मेरूनिव । मेरवः किंभूताः । सुवर्णैः काश्चनैः वर्ष्याः प्रशस्याः । पुनः कुत्रापि स्थाने रौप्यान् रूप्याणामिमे रौप्याः। रजतमयानित्यर्थः। कानिव। शर्वशैलानिव। यथा कैलाशाः कलधौतखरूपा भवन्ति । 'रजताद्रिस्तु कैलाशः' इति हैम्याम् । अपि पुनः क्वचन भूभागे आश्मगर्भान् अश्मगर्भाणां हरिन्मणीनामिमे । मरकतमणिमयानित्यर्थः । कानिव । विन्ध्यभूनानिव । विन्ध्योपमानं श्यामवर्णत्वात् । श्यामनीलवर्णयोः

Loading...

Page Navigation
1 ... 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980