Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः] हीरसौभाग्यम् । लता किंचित्कृतं किंचिन्न कृतं किंचिदिष्यते किंचिच्च क्रियते इलायं श्लथलमालम्ब्यत । केनेव । कौसीयेनालस्येन माद्यदुन्मत्तीभवन्मनश्चेतो यस्य तादृशेन पुंसेव । यथा अलसेन सर्व कार्य श्लथीक्रियते ॥ इति षष्ठबदे रात्रिभोजनक्रियाशैथिल्यालोचनम् ॥
प्रमादभाजा नियमा मया ये बभञ्जिरे भ्रान्तिभृता भवेषु । छायाद्रुमं गण्डगलन्मदान्धं भविष्णुनेवोद्धरसिन्धुरेण ॥ १४४ ॥ प्रमादमालस्यं शिथिलतां वा अनवधानतां वा मन्दभावं वा भजतीति प्रमद्वरेण प्रमसतायुक्तेन भया नियमा अभिग्रहविशेषा बभञ्जिरे भन्नाः गृहीला मुक्काः । किंभू. तेन मया । भवेषु कर्नवैचित्र्यानाना विधजन्मपरम्परासु भ्रान्ति भ्रमणीं बिभर्तीति भ्राम्यतेत्यर्थः । केनेव । उद्धरसिन्धुरेणेव । यथा गण्डयोः कपोलस्थलयोर्गलद्भिरनवरतनि"तद्भिर्मदैः दानवारिभिरन्धं भविष्णुनागतनयनीभवनशीलेन विचेतनीभावुकेन मदुदोदुरसिन्धुरेण उन्मादोत्कटकरटिना गम्भीरवेदिद्विरदेन छायया उपलक्षितास्तरवो येषां कदाचिदपि परावृत्तिं न भजते, पूर्वस्यां पश्चिमायां दक्षिणस्यामुत्तरस्यां च नायाति, यथास्थानमवस्थितैव तिष्ठति । अथ वा पल्लवपत्रपुष्पफलप्रमुखसुषमाविभूषितास्ते छायाद्रुमा भज्यन्ते ॥ इति सर्वनियमविरोधनालोचनम् ।।
अपेक्षया पञ्चमहाव्रतानां खर्भूधराणामिव भूधरेषु । अणुष्वहर्बन्धुमितव्रतेषु मया विराद्धं गृहमेधिना यत् ॥ १४५ ॥
गृहमेधिना गृहस्थेन सता मया यदहर्बन्धवः सूर्या द्वादशादित्याः तैर्मितानि प्रमाणीकृतानि व्रतानि द्वादशवतानि । स्थूलप्राणातिपातविरमणम्, स्थूलमृषावादविरमणम् , स्थूलादत्तादानविरमणम् , खदारसंतोषपरस्त्रीविधवावेश्याकन्याभिगमनादिविरमणम् , इ. च्छा-परिग्रहः-परिमाणम्, सर्वदिग्गमनादिविरमणं प्रमाणं च, भोगोपभोगप्रमाणम् , अनर्थदण्डविरमणम्, सामायककरणम् , प्रतिदिनं निशां च देशावकासिकं दिगवकाश. करणम्, पर्वादिषु पोषधोपवासविधानम्, अतिथिसंविभागविधानम्, इत्यभिधानेषु गृहस्थानां पश्चाणुव्रतानि । त्रीणि गुणव्रतानि । चत्वारि शिक्षाव्रतानि । इति द्वादशसु व्रतेषु यत्किंचिन्मया विराद्धम् अतिक्रम-व्यतिक्रम-अतीचार-अनाचाराचरणा दिना विराधना कृता । किंभूतानाम् । पञ्चानां महाव्रतानामपेक्षया । पञ्चमहाव्रतेषु हि सर्वथैव सर्वेभ्योऽपि प्रोकवस्तुभ्यो विरमणम् । द्वादशव्रतेषु तु देशत एव न सर्वतः । इत्यपेक्षया अणुषु हखेषु लघुषु । केष्विव । भूधरेष्विव । यथा खर्भूधराणां मेरूणां लक्षयोजनप्रमाणत्वेन महत्त्वं महत्त्वाच्च बहुवचनम् । अपेक्षया अपरेषु भूधरेष्वणुलं लघुतास्ते सुदर्शनमेरुं विना केष्वपि गिरिषु लक्षयोजनप्रमाणता नास्ति ॥
संसाधकेषु त्रिदिवापवर्गदुर्गस्य योगेष्विह योगिनेव । वीर्य प्रयुक्तं न मया कथंचित्प्रमादमन्दीकृतमानसेन ॥ १४६॥
Loading... Page Navigation 1 ... 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980