Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 975
________________ ९११ काव्यमाला। स्मीकलितं शोभायुकं वा साधुसाध्वीश्रावकश्राविकारूपचातुर्वर्ण्यसंघः स एव सरोजकाननं कमलवनं म्ठानि संकोचं धत्तेऽश्चति विच्छायीभूतमास्ते । पुनः संप्राप्तप्रसरा आसा. दितावकाशा लब्धप्रस्तावा नकंचरा राक्षसा इव चारा इव वा कदाचारा दुर्दशो दुष्ट. दर्शनाः कृपाक्षिकाः कुमतानि परितश्चतुर्दिभु प्रसरन्ति सर्वतो भ्राम्यन्ति । पुनम्तमः शोकोऽज्ञानं पापं च । 'तमो गुणोऽपि ध्वान्तं तमः शोके तमिस्र च । गुणभेदे विध्वान्तं पापे च' इत्यनेकार्यतिलके । स्फूति बलवत्ता प्रकटीभावं च शीलति भजते। रज़नीवि. लसितमासीदिति श्रीमत्सु सत्सु चतुरिक एव केवलं संजातोऽभूत्, अधुना पुनः पञ्चमारकः प्रादुरासीदिति ॥ इति विजयसेनसूरेगुरौ दिवं गते खेदवाक्यानि ॥ कातर्यमुत्सृज्य विधाय धैर्य दुःखं तनूकृत्य स कृत्यविज्ञः। गणं गणेन्द्रो गुणिनां वरेण्यः प्राचीनसूरीन्द्र इवावति स्म ॥ २० ॥ स गणेन्द्रो विजयसेनगणनायकः प्राचीनसूरीन्द्रः पूर्वाचार्य इव गणं तपागच्छम् अवति स पालयामास । किंभूतः। गुणिनां गुणवतां वरेण्यः श्रेष्टः । किं कृत्वा । कार्य कातरलं श्रीगुरुविरहेण विधुरीभावमुत्सृज्य त्यक्त्वा । च पुनः किं कृत्वा। धर्य धीरभावं विधाय आलान्य । पुनर्दुःखं गुरुविरहासादितं तनूकृत्य 'खल्पं प्रणीयं । किंभूतः । कृत्येषु धर्मादिकार्येषु विज्ञश्चतुरः ॥ श्रीसूरिहीरविनये भनति धुलोक मभ्युद्गते विजयसेनगणावनीन्द्रे । प्रीति जना दधति शीतरुचौ प्रयाते. . , क्षेत्रान्तरं समुदितेंऽशुमतीव कोकाः ॥ २०८॥ श्रिया युक्तः मूरिहारविजय एतावता होरविजयसूरिवरे द्युलोकं खर्ग भजति तथा विजयसेननानि गणावनीन्दे गणनायके अभ्युद्गते उदयं भजमाने सति जना भविकलोकाः प्रीतिं धर्ममेहं प्रमोदं वा दधति विभ्रति । के इव । यथा शीतरुची चन्द्र क्षेत्रा. न्तरमन्यक्षेत्रं पश्चिममहाविदेहक्षेत्रं प्रयाते । तथा अंशुमति भानुमालिनि समुदिते मति कोकाः चक्रवाकाः प्रीति परस्परवियोगापगमादानं दधते ॥ तत्पट्टोदयभूधरभास्थान्श्रीविजयदेवसूरीन्द्रः । भजते तपगणराज्यश्रियमुर्वीसार्वभौम इव ॥ २०९ ॥ तस्य विजयसेनसूरेः पE: पदं स एवोदयभूधर उदयाचलखत्र भाखान् सहसकि. रमः त्रिया तपागणलक्ष्म्यान्वितो विजयदेवमूरीन्द्रः अधुना इदानींतनसमये वृत्तिविधानावसरे तपगणस्य तपागच्छस्य राज्यत्रियं भजते । क इव । उवासार्वभौम इव । बा चक्रवर्ती उर्वी भजते पालयति ॥

Loading...

Page Navigation
1 ... 973 974 975 976 977 978 979 980