Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१० सर्ग:
हीरसौभाग्यम् ।
९०३ वाद्यौघमाद्यन्निनदैर्जिनस्येवामुष्य निर्वाणमहं प्रणेतुम् । किमाह्वयन्तस्त्रिदशानशेषानादाय तां श्राद्धजनाः प्रचेलुः ॥ १७५ ॥
श्राद्धजनाः श्रावकत्रजाः तां मण्डपिकामादाय स्कन्धेषु समधिरोप्य प्रचेलुः संस्कारभूमि प्रति प्रचलन्ति स्म । उत्प्रेक्ष्यते-वाद्यौघानां वादित्रसंदोहानां माद्यद्भिर्बहलीभवद्भिनिनदैः शब्दैः कृत्वा अशेषान् सर्वानपि महेन्द्रप्रमुखान् निदशान् देवान् किमालयन्त आकारयन्त इव । किं कर्तुम् । अमुष्य सूरेजिनस्य तीर्थकरस्येव निर्वाणमहं परलोकगमनमहोत्सवं प्रणेतुं विधातुम् ॥ ध्वजवजैरुर्जितसांध्यरागोपयुक्तवद्विष्णुपदं सृजन्तः । आदाय तां मण्डपिकां मुनीन्दोः संस्कारभूमीमनयञ्जनास्ते ॥ १७६ ॥ ते जना द्वीपोन्नतनगरश्राद्धलोका मुनीन्दोहीरसूरेमण्डपिकामादाय गृहीत्वा संस्कारस्य परलोकोपगतशरीरिंशरीरस्य कृशानुना संस्कृतिकरणस्य भूमी स्थानकमगमन् गच्छन्ति अनयन् प्रापयन्ति स्म वा । किं कुर्वन्तः । सृजन्तः विदधतः । किम् । विष्णुपदं हरिचरणमाकाशम् । किंवत् । ऊर्जितेन प्रबलेन संध्यायां दिवसावसाने भवः सांध्यः स चासौ रागश्च सायंतनसंध्यासंबन्धिरक्तिम्णा युक्तवत्कलितमिव । कैः । ध्वजवजैः पताकाप्रकारैः । विविधवर्णवैजयन्तीराजिभिः संध्यायामनेके नीलपीतरक्तादिका रङ्गा भवेयुः ॥ .
महीन्दिरायाः शिरसीव नीलमणीप्रणीतातपवारणस्य । रसालसालस्य तलेऽखिलास्ते स्वांसस्थलान्मण्डपिकाममुञ्चन् ॥ १७७ ॥
अखिलाः समस्ता अपि श्राद्धजना द्वीपोन्नतपुरलोकाः खांसस्थलानिजस्कन्धदेशात् । 'आत्मीयस्कन्धेभ्य इत्यर्थः। रसालसालस्य सहकारमहीरुहस्य तले अधःप्रदेशभूमौ मण्डपिकाममुञ्चन् शुद्धधरणीमण्डले स्थापयन्ति स्म । कथंभूतस्य रसालसालन्य । नीलमणीप्रणीतातपवारणस्य ................... । उत्प्रेक्ष्यते-महीन्दिरायाः ..............। अथोपस्कारमेलनम्— संस्कारोपस्करमथ तत्रानिन्युर्जना गतोत्साहाः।
चन्दनदलिकादिममिव गीर्वाणाः सार्वनिर्वाणे ॥ १७८॥ अथ संस्कारभूमौ मण्डपिकाया आनयनानन्तरं गतोत्साहाः शिथिलोद्यमा उद्यमरहिताः । 'उत्साहः प्रगल्भता । अभियोगोद्यमौ प्रौढिः' इति हैम्याम् । जनास्तत्र सं. स्कारोचितसहकारतरुसमीपभूमौ संस्कारोपस्करं सूरिशरीरसंस्कारकरणसमुदायमानिन्युरानयन्ति स्म । संस्कारोपस्करं किंभूतम् । चन्दनदलिकादिमं श्रीखण्डकाष्ठप्रमुखम् । क इव । गीर्वाणा इव । यथा देवा विगतोद्यमाः सन्तः सार्वस्य जिनस्य निर्वाणे सिद्धिवि. धाने तदर्हत्तमसंस्कारोपस्करं मेरुभूमेश्चन्दनादिकमानयन्ति ।
Loading... Page Navigation 1 ... 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980