Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 970
________________ १७ सर्गः] हीरसौभाग्यम् । ९०९ __ सुरा देवास्तस्य गुरुपादुकापवित्रीकृतस्तूपस्य सांनिध्यं संनिधितां पार्श्ववर्तिकताम् । आराधकानां कामितपूरकतामिति यावत् । आदधुश्चक्रुः । लोकरक्षासमीहितपूरणादिकं सांनिध्यं विदधते । कस्या इव । अर्हन्मूर्तेरिव । यथा भगवत्प्रतिमायाः मुराः सांनिध्यं कुर्वते । सुराः किं कुर्वन्तः। तिष्ठन्तः। कुत्र । इह सूरिस्तूपे । उत्प्रेक्ष्यते-तस्य प्रभोः हीरसूरेः प्रभावैर्माहात्म्यैराकृष्टा इव आकृष्यानीता इव ॥ तत्रार्चितुं स्तूपमकब्बरेण समीपभूमी कियती वितीर्णा । .. सिद्धाचले सिद्धनृपेण नाभिभवं यथा द्वादश संनिवेशाः ॥ १९५ ॥ तत्रोन्नतनगरसीमभूमीमण्डले स्तूपं तात्स्थ्यात्तव्यपदेशात्सूरिपादुकां गुरुपादुकाधिटानमचितुं पूजयितुमकब्बरेण पातिसाहिना कियती कियत्प्रमाणा द्वाविंशतिबीघाप्रमिता। क्षेत्रादिषु मानविशेषे बीघा इत्युच्यन्ते। ते च सौराष्ट्रगुर्जरजनपदेषु प्रसिद्धाः । समीपस्य अर्थात्सूपस्य पार्श्ववर्तिनी भूमी वितीर्णा प्रदत्ता। केनेव। सिद्धनृपेणेव ।अत्र यथा सिद्धाचले श्रीशजयपर्वते नाभिभवं श्रीऋषभदेवमर्चितुं सिद्धराजजयसिंहदेवेन समीपभूमौ विमलाचलसमीपवर्तिनो द्वादश संनिवेशा ग्रामा वितीर्यन्ते स्म । 'देवकपत्तने खनिर्मापितप्रासादपूर्णीभवनानन्तरं सोमेश्वरयात्रानिमित्तप्रस्थितेनाध्वनि खसाध स. मानीतमाननीयश्रीहेमचन्द्रसूरीन्द्रेणार्धमार्गागतान्तातीततीर्थकृन्मुनिजनसिद्धिगमनक्षेत्रा. दिमाहात्म्यकथनादत्युन्नतरागेण प्रच्छन्नमागत्य विमलगिरियानो विधायादिदेवपूजाकृते द्वादश प्रामान्दत्त्वा खानीकमलंकृतवान् ।' इति कुमारपालप्रबन्धचरित्रादिषु प्रोक्तमस्तीति ॥ माकन्दमोचाबकुलप्रियालकङ्केल्लिकुन्दादितरूपयुक्तम् । तस्याभितोऽभूत्सुमनोद्रुमाकं वनं सुमेरोरिव भद्रसालम् ॥ १९६ ॥ ___ तस्य स्तूपस्याभितः परितो वनं काननमभूत् । किंभूतं वनम् । माकन्दाः सहकाराः, . मोचाः कदल्यः, बकुलाः केसराः 'बउलसिरी' इति प्रसिद्धाः, प्रियाला राजादनाः, कङ्केल्लयः अशोकाः, कुन्दा मुचकुन्दाः, ते आदौ येषां तादृशैस्तरुभिर्दुमैः उपयुक्तम् । किमिव । भद्रसालमिव । यथा सुमेरोः सुवर्णाचलस्याभितः परितो भूमौ भद्रसालं नाम वनमभूत् । किंभूतम् । सुमनोद्रुमाः कल्पवृक्षाः अङ्के उत्सङ्गे मध्ये यस्य । तथा माकन्दादिपादपैः कलितं च । स्तूपवनं तु अर्थात्किभूतम् । सुमनोभिः कुसुमैरुपलक्षणात्पत्रपल्लवफलैर्ललिता तुमाः पूर्वोक्का इतरे च तरवः अङ्के मध्ये यस्य तत् ॥ अन्वतिष्ठंश्चतुर्दिग्विभागागता यात्रिकास्तत्र यात्रां जिनेन्द्राद्रिवत् । कामिकस्वर्गिणेवामुना कामितं पूर्यतेऽन्यच्च सेवासु हेवाकिनाम् ॥१९७॥ चतसृणां चतुःसंख्याकानां पूर्वा-दक्षिणा-पश्चिमा-उत्तरानाम्नां दिशां हरितां विभागेभ्यः प्रदेशेभ्यः आगताः आयाता यात्रिका यात्राकारका जनास्तत्र स्तूपें यात्रां प्रभु.

Loading...

Page Navigation
1 ... 968 969 970 971 972 973 974 975 976 977 978 979 980