Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
अथापराधिकारे एतस्मिन् समये च कोऽपि कश्चिदनिर्दिष्टनामा भट्टः । खयमध्येतुः पराध्यापयितुश्च विद्वद्विजस्य भट्ट इति नामोच्यते । स भो बभूव । किंलक्षणः । द्विजाग्रणीाह्मणमुख्यः । पुनः किंभूतः । अङ्गजेन खनन्दनेन युतः । क इव । समुद्रशायीव । 'दासाहः पुरुषोत्तमोऽब्धिशयनः' इति हैम्याम् । यथा नारायणः अङ्गजेन लक्ष्मीतनुजेन प्रद्युम्नेन सहितः कमनः । 'कलाकेलिरनन्यजोऽङ्गजः' इत्यपि हैम्याम् । भट्टः कुत्रस्थाने । उन्नत इत्याख्या नाम यस्य तादृशस्य पुरस्य पार्श्वे समीपभाजि वापि सं. निधिवर्तिनि ग्रामे । किंभूते । सपने सह पद्मया लक्ष्या वर्तते यः सः । कस्मिन्निव । सरसीरुहीव । यथा कमलं लक्ष्मीकलितं भवेत् ॥
दिव्यं विमानं पवमानमार्गे नक्तं दृशा बिम्बमिवैन्दवीयम् । सनन्दनो मन्दिरचन्द्रशालामालम्बमानः स विलोकते स्म ।। १६५ ॥
स भट्टो नकं प्रथमरात्रिसमये दृशा खलोचनेन पवमानमार्गे गगनाङ्गणे दिव्यं देवतासंबन्धि विमानं देवानां गमनगमनासनयानं विलोकते स्म दृष्टवान् । उत्प्रेक्ष्यतेऐन्दवीयं चन्द्रसंबन्धि विम्बं मण्डलमिव । किंभूतो भट्टः। सनन्दनः तत्रावसरे पुत्रयुक्तः खाङ्गजेन सहोपविष्टोऽस्ति । किं कुर्वाणः । मन्दिरस्य खगृहस्य चन्दशालां शिरोगृहमुपरितनभूमिकामालम्बमान आश्रयन् ॥
परस्परं वार्तयतां सुराणां तदा नराणामिव देवमार्गे । इदं तदन्तर्ध्वनितं तमायां शुश्राव स श्रोत्रपुटेन भट्टः ॥ १६ ॥ स पूर्वकथितो भट्टस्तमायां रजन्यां श्रोत्रपुटेन निजश्रवणपुटकेन इदमग्रे प्रोच्यमानं तस्य विमानस्यान्तमध्ये ध्वनितं शब्दं शुश्राव आकर्णयामास । केषाम् । सुराणां देवानाम् । किं कुर्वताम् । परस्परं मिथो वाक्यतां किंवदन्ती कुर्वताम् । क । देवमार्गे आकाशे । कदा । तदा सूरेनिर्वाणसमये। केषामिव । नराणामिव । यथा मानवा अन्योन्यं वार्तयन्ति तथा वार्तयतां मनुष्याणां शब्दः श्रूयते ॥
सौमङ्गलाद्या इव नाभिसूनोर्वकं व्रतीन्दोरिह जीवतोऽस्य । विलोकयामश्च यथा कृतार्थाः स्यामः सुरास्तत्त्वरितं चरन्तु ॥ १६७ ॥ यद्यस्मात्कारणादिहोन्नतनगरे इह सूरिभवे वा जीवतः प्राणान्धारयतोऽस्य व्रतीन्दोरेतस्यैव हीरविजयसूरेः वकं वदनं विलोकयामः पश्यामः । के इव । सौमङ्गलाद्या इव । यथा खनिर्वाणसमयमवसायानशनं निर्मातुमष्टापदपर्वते निवेदिते समवमृतस्य नाभिसूनोः श्रीऋषभदेवस्य अष्टापदाद्रिरक्षकैर्भरतचक्रिणः पुरस्तात्तदुदन्ते जीवतो भगवतः पितुः पितामहस्य खामिनो वदनारविन्दं विलोकयाम इति कृत्वा गलद्वहुलबाष्पप्लवला. वितविलोचनयुगला भरतचक्रितदङ्गजप्रमुखा इक्ष्वाकुवंशोद्भवा बहवो जना ओजायमाना अष्टापदाचलं प्रचेलु:-इति शत्रुजयमाहात्म्ये विस्तारोऽस्ति । पुनर्यथा येन प्रका
Loading... Page Navigation 1 ... 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980