Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 960
________________ १७ सर्गः] हीरसौभाग्यम् । ८९९ मानान् । किंवत् । महेभ्यवत् यथा महाव्यवहारिणः सद्भिर्विद्यमानै रत्नादिभिः शोभमानव निधिभिर्निधानैः शालन्ते राजन्ते तान् तादृशाननगारान् निजपारिपार्श्वकान्मुनीनाकार्याहूय पुनस्तेषामाकारितयतीनामैहिकानीह लोकसंबन्धीनि आमुष्निकाणि परलोकसंबन्धीनि सर्वाणि समस्तानि शर्माणि सुखानि तेषां निर्माण करणे दक्षाः कुशलाः शिक्षा अनुशास्ती: प्रवितीर्य दत्त्वा ॥ अहो युवाभ्यां विजयादिसेनत्रतिक्षितीन्द्रान्प्रति वाच्यमेतत् । युष्माकमङ्केऽस्ति गणोऽखिलोऽपि स शासनीयः शिशुवत्स्वकीयः ॥ १६१ अहो इति संबोधने । विमलहर्षसोमवाचकौ युवाभ्यां संभूय विजय इति पदमादौ यस्य तादृशः सन् एतावता विजयसेननाम्नः व्रतिक्षितीन्द्रान् साधुवसुधाधिपान् प्रति एतदुच्यमा वाच्यं कथनीयम् । तदेवोच्यते - अखिलोऽपि समस्तोऽपि गणस्तपागच्छो युष्माकं श्रीमतामङ्के उत्सङ्गेऽस्ति वर्तते । स तपागच्छश्रमणगणः शासनीयः सम्यक् पालनीयः । किंवत् । शिशुवत् । यथा स्वकीयो बालः पाल्यते । गणः किंभूतः । खकीयो गुरुपरम्परया आगतः । आत्मीयः अथ श्रीमदीयः ॥ श्रीवाच केन्द्रौ विमलादिहर्षसोमादिराजद्विजयाभिधानौ । 1 सदाश्रवौ स्वौ सचिवाविवाथ संयोज्य वाचेति निजं मुखाब्जम् ॥ १६२॥ अथ पुनः किं कृत्वा । विमल इति पदमादौ यस्य तादृशो हर्षः, तथा सोम इति पदमादौ यस्य स सोमादि:, तेन राजत् शोभमानं विजय इति पदं यस्य एतावता विमलहर्ष-सोमविजय इत्यभिधाने 'ययोस्तौ । किंभूतौ । श्रीवाचकेन्द्रौ श्रीमदुपाध्यायाधिराजौ प्रति इति पूर्वोकेन गणशासनलक्षणविजय सेन सूरिशिक्षाप्रदानरूपप्रकरणवाचा वाण्या समं निजं मुखाब्जं वदनकमलं संयोज्य योजयित्वा । उक्त्वेत्यर्थः । उत्प्रेक्ष्येते - वाचक व सचिवाविव आत्मीयामात्यामिव । किंभूतौ । सदा सर्वदा कालमाश्रवौ बचनस्थितौ निजकथनकारकौ ॥ प्रणीय पूर्णाश्चतुरक्षमालाश्चतुर्गतीनामिव वारयित्रीः । गन्तुं गतिं पञ्चमिकामिवाथो स पञ्चमीं प्रारभताक्षमालाम् ॥ १६३ ॥ -पुनः किं कृत्वा । चतुरक्षमालाश्चतस्रो जपमालिकाः पूर्णाः समाप्ति प्राप्ताः संपूर्णाः संजाताः प्रणीय कृत्वा आदितो गणयित्वा । उत्प्रेक्ष्यते - चतसृणां नरकतिर्यङ्करसुरलक्षणानां गतीनां कुत्सितानां स्थानकानां वारयित्रीनिषेधयित्रीर्निषेधिका इव । अथो पुनः स सूरिः पञ्चमीं पञ्चानां संख्यापूरणीमक्षमालां प्रारभत । गणयितुमिति शेषः । उत्प्रेक्ष्यते - पञ्चमिकां पञ्चानां गतीनां पूरणीं पूरकां गतिमनन्तसुखावासलक्षणां गतिं गन्तुं यातुमिव ॥ सप्तभिः कुलकम् ॥ अथोन्नताख्यस्य पुरस्य पार्श्वे ग्रामे सपने सरसीरुहीव । समुद्रशायीव युतोऽङ्गजेन द्विजाग्रणी ः कोऽपि बभूव भट्टः ॥ १६४ ॥

Loading...

Page Navigation
1 ... 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980