Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८१२
काव्यमाला। मोद्घाटयेः स्वस्तरुपत्रपेटां संप्रापयेीपपुरं पुनस्ताम् । परस्य पृथ्व्या इव वासवस्य तत्राजयो:शितुरर्पयेस्त्वम् ॥ १३ ॥ हे वत्स हे सागरव्यवहारिन्, मयोधा पयोधिपयोमध्यवर्तिनी खस्तरोः कल्पद्रुमस्य पत्राणां दलानाम् । खर्दुमपणेनिर्मितामित्यर्थः । पेटा मजुषां मोद्घाटयेः त्वं माविकाशीकुर्याः । 'तुंम उघाडीश' इति लोकमाषा । पुनस्तां कल्पपादपपत्रपेटा द्वीपनाम्नि पुरे नगरे संप्रापयेः अनुदाटितद्वारकपाटामेव एना द्वीपबन्दिरे त्वं नयेः। गृहीत्वा गायाः इत्यर्थः । पुनखत्र द्वीपपुरे बर्यादिग्जैत्रयात्रार्य समेतस्थाजयनान्न उर्वीशितुः पृथ्वीपतेः राज्ञः अर्पयेः विश्राणयेः दद्याः । उत्रोक्ष्यते-पृथ्व्या भूमेः परस्य अन्यस्य वासवस्य पुरंदरस्येव एकः खर्गवासवो वर्तते अयमन्यो मेदिन्या वासव इव ॥
उद्धाट्य पेटां प्रकटां प्रणीय चित्रादिवल्लीमिव पार्श्वमूर्तिम् । छिनत्त्विदं खात्रजलाभिषेकाशतं ससप्तोत्तरमङ्गरोगान् ॥ ४४ ॥ हे सागरेभ्य, मजयो नाम राजा इदं स्नात्रस्य अस्याः श्रीपार्श्वनाथमूर्तेः मात्रस्य सपनस्य जलस्य सलिलस्याभिषेकान्सिश्चनान्तप्तसंख्या उत्तरे अग्रे यस्य तादृशं शतमेतावता सप्तोत्तरं शतमकरोगान् खशरीरामयान् छिनत्तु निराकरोतु । 'स दिशः सकला जिष्णुर्जयन्प्राग्भावकर्मणा। सप्तोत्तरशतेनाय व्याधिना परिपीडितः ॥ आकामनिति भूपालान् बलात्सौराष्ट्रमण्डलम् । क्रमात्प्रापदखण्डाज्ञस्त्रिखण्डावनिमण्डनः ॥' इति शत्रुजयमाहात्म्ये । किं कृत्वा । पेटां कल्पद्रुदलमण्डलघटितां मञ्जूषामुद्धाव्य द्वारद्वयं विकाशीकृत्य । अपावृतद्वारां विधायेत्यर्थः । पुनश्चित्रमिति पदमादौ यस्यास्तादृशीं वल्लीमिव चित्रकवल्लीमिव 'चित्रावेलि' इति प्रसिद्धा द्रव्याद्यक्षयकारिका पार्श्वमूर्ति श्रीपार्श्वनाथप्रतिमां प्रकटा लोचनगोचरां प्रणीय कृत्वा ॥ इति पद्मावत्यादेशः ॥
आसादितप्राणितवत्पुनः खं विदनिशम्येति गिरं त्रिदश्याः। आनाययन्नीरधिनीरमध्याजनैः स्वपोते जिनमूर्तिपेटाम् ॥ ४५ ॥ स सागरव्यवहारी जनैः खनाविकलोकै नीरधिनीरमध्यात्समुद्रसलिलान्तरालाजिनमूतिपेटां त्रयोविंशतितमममवत्प्रतिमापवित्रितमध्यमषा खपोते खयानपात्रमध्ये आनाययत् । किं कृत्वा । निश्चम्य श्रुत्वा । काम् । त्रिदश्या पद्मावत्या देवताया गिरं वाणीम् । स सागरः किं कुर्वन् । पुनर्द्वितीयवारमासादितं संप्राप्तं प्राणितं जीवितव्यं येन तद्वत्खमात्मानं विदन् जावन् ।
क्षणाददृश्योऽभवदिन्द्रजालमिवोपसर्गोऽथ प्रभोः प्रभावात् । चमत्कृतस्तत्पविलोक्य पेटामभ्यर्च्य भोगादि पुरो व्यधत्त ॥ ४६॥
अय पोते पार्श्वनाथप्रतिमासमागमनानन्तरमुपसर्गो गर्जोर्जिततडिझात्कारितनूतजीमृतवातादिजनितोपद्रवः क्षमात्क्षणमात्राददृश्यो दृग्गोचरावीतः क्षणदृष्टनष्टः अज
Loading... Page Navigation 1 ... 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980