Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 928
________________ १७ सर्गः हीरसौभाग्यम् । स हीरविजयनामा मुमुक्षूणां मुनीनां मध्ये क्षोण्या भूमेः ऋभुक्षा इन्द्रः । सूरीन्द्र इत्यर्थः । तद्वदजयपार्श्वनाथ इव तत्पुरमजयपुरमधुना तु अजारप्रामः ग्रामनाना च 'अझारोपार्श्वनाथ' इति प्रसिद्धिः । आत्मना स्वेनैव पवित्रीकृतवान् पावनीचकार । किं कृत्वा । तत्र चैत्ये बहिःप्रदेशवर्तिन्यां धर्मशालायां जनान् भविकलोकान् प्रति इति पूर्वोकप्रकारेण अजयपार्वागमनादिवत्तमुपदिश्य उपदेशं देशनां दत्त्वा च पुनः क्षणं क्षणमात्रं तं जिनमक्ष्णोर्टशोर्लक्ष्यं गोचरं प्रणीय निर्माय पुनस्तं पार्श्वनाथं नत्वा प्रणम्य ॥ द्वीपस्य संघोऽप्यखिलो मुनीन्दोरभ्यागमत्तत्र सहाङ्गनाभिः । माहात्म्यमद्वैतमवेत्य तस्य शुश्रूषया लेखगणः किमेषः ॥ ६१ ॥ तत्राजयपुरे अङ्गनाभिः खकीयपरकीयपुरं पुरंध्रीभिः सह सार्धमखिलोऽपि समस्तोऽपि द्वीपस्य द्वीपबन्दिरस्य संघः श्रावकसमुदायो मुनीन्दोहीरविजयसूरेरभ्यागमत्संमुखमाजगाम । उत्प्रेक्ष्यते--तस्य सूरीशितुः अद्वैतमनन्यमसाधारणं माहात्म्यं वाङ्मनसगोचरातीतं महिमानमवेत्य विज्ञाय शुश्रूषया सेवां कर्तुमिच्छया एष संघरूपो लेखगणः सुरसमूहः समेतः समागत इव ॥ लोकंपृणान्वीक्ष्य गुणान्गणेन्दोः प्रीता प्रणीयागणितात्ममूर्तीः। . नम्रागतस्त्रैणमिषेण लक्ष्मीनमस्यती स्तौति च गायतीव ॥ १२॥ गणेन्दोः सूरेर्लो कंपृणान्विश्राह्लादकान् गुणान् शमदममार्दवार्जवसंयमनिष्ठत्वादिकान् वीक्ष्य खदृग्गोचरीकृत्य प्रीता संतुष्टचित्ता सती नम्र नमनशीलं तथा आगतं भगवद्वन्दनार्थमायातं यत्स्त्रैणं स्त्रीणां समूहः सीमन्तिनीसमुदायस्तस्य मिषेण कपटेन अगणिता गणनातीता आत्मनः खस्य मूर्तीः शरीराषि प्रणीय लक्ष्मीर्जलधिनन्दना । उत्प्रेक्ष्यते-नमस्यतीव अर्थाद्गणधरं नमस्करोतीव । च पुनः स्तौतीव स्तुतिगोचरीकरोतीव । च पुनर्गायतीव गानविषयीकरोतीव । वार्धेः सामीप्यात्तन्नन्दनाया आगमनमुचितमेव । पितुः पार्श्वे कदाचिदुत्कण्ठिता पुत्री मिलनार्थमागच्छतीति समुद्रे श्रिया सदावोऽप्युचित एव ॥ इति द्वीपबन्दिरे संघागमनम् ॥ ... ततः प्रतस्थे प्रभुरुन्नताख्यं पुरं प्रति प्रीतमना मुनीन्द्रः । .. मेघागमे मानसमभ्रमार्गवहाप्रवाहादिव राजहंसः ॥ ६३ ॥ ततो द्वीपोन्नतदेवलपाटकसत्कसंघसमागमनानन्तरं हीरविजयसूरिः ततोऽजयपुरादुन्नतमित्याख्या नाम यस्य तादृशं पुरं प्रति प्रतस्थे। उन्नतनगराभिमुखं प्रचलति स्म । किंभूतः । प्रभुः सर्वधर्मकार्यकरणप्रवण: समर्थः । पुनः किंभूतः । प्रीतमनाः श्रीपार्श्वनाथयात्रया कृत्वा हृष्टमानसः । क इव । राजहंस इव । यथा मेघागमे अभ्रमार्गो मेघावा गगनम् । 'सुराभ्रोडुमरुत्पथोऽम्बरम् ,' तथा 'अभ्रं धूमयोनिस्तनयित्नुमेघाः' इति द्वयमपि हैम्याम् । तस्य वहा नदी। गङ्गेत्यर्थः । 'सिद्धखःखर्गिखापगाः । ऋषिकुल्या हेमवती' इत्यपि हैम्याम् । तथा 'सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतखिनी निम्नगा' इत्यपि

Loading...

Page Navigation
1 ... 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980