________________
१७ सर्गः
हीरसौभाग्यम् । स हीरविजयनामा मुमुक्षूणां मुनीनां मध्ये क्षोण्या भूमेः ऋभुक्षा इन्द्रः । सूरीन्द्र इत्यर्थः । तद्वदजयपार्श्वनाथ इव तत्पुरमजयपुरमधुना तु अजारप्रामः ग्रामनाना च 'अझारोपार्श्वनाथ' इति प्रसिद्धिः । आत्मना स्वेनैव पवित्रीकृतवान् पावनीचकार । किं कृत्वा । तत्र चैत्ये बहिःप्रदेशवर्तिन्यां धर्मशालायां जनान् भविकलोकान् प्रति इति पूर्वोकप्रकारेण अजयपार्वागमनादिवत्तमुपदिश्य उपदेशं देशनां दत्त्वा च पुनः क्षणं क्षणमात्रं तं जिनमक्ष्णोर्टशोर्लक्ष्यं गोचरं प्रणीय निर्माय पुनस्तं पार्श्वनाथं नत्वा प्रणम्य ॥
द्वीपस्य संघोऽप्यखिलो मुनीन्दोरभ्यागमत्तत्र सहाङ्गनाभिः । माहात्म्यमद्वैतमवेत्य तस्य शुश्रूषया लेखगणः किमेषः ॥ ६१ ॥ तत्राजयपुरे अङ्गनाभिः खकीयपरकीयपुरं पुरंध्रीभिः सह सार्धमखिलोऽपि समस्तोऽपि द्वीपस्य द्वीपबन्दिरस्य संघः श्रावकसमुदायो मुनीन्दोहीरविजयसूरेरभ्यागमत्संमुखमाजगाम । उत्प्रेक्ष्यते--तस्य सूरीशितुः अद्वैतमनन्यमसाधारणं माहात्म्यं वाङ्मनसगोचरातीतं महिमानमवेत्य विज्ञाय शुश्रूषया सेवां कर्तुमिच्छया एष संघरूपो लेखगणः सुरसमूहः समेतः समागत इव ॥
लोकंपृणान्वीक्ष्य गुणान्गणेन्दोः प्रीता प्रणीयागणितात्ममूर्तीः। . नम्रागतस्त्रैणमिषेण लक्ष्मीनमस्यती स्तौति च गायतीव ॥ १२॥ गणेन्दोः सूरेर्लो कंपृणान्विश्राह्लादकान् गुणान् शमदममार्दवार्जवसंयमनिष्ठत्वादिकान् वीक्ष्य खदृग्गोचरीकृत्य प्रीता संतुष्टचित्ता सती नम्र नमनशीलं तथा आगतं भगवद्वन्दनार्थमायातं यत्स्त्रैणं स्त्रीणां समूहः सीमन्तिनीसमुदायस्तस्य मिषेण कपटेन अगणिता गणनातीता आत्मनः खस्य मूर्तीः शरीराषि प्रणीय लक्ष्मीर्जलधिनन्दना । उत्प्रेक्ष्यते-नमस्यतीव अर्थाद्गणधरं नमस्करोतीव । च पुनः स्तौतीव स्तुतिगोचरीकरोतीव । च पुनर्गायतीव गानविषयीकरोतीव । वार्धेः सामीप्यात्तन्नन्दनाया आगमनमुचितमेव । पितुः पार्श्वे कदाचिदुत्कण्ठिता पुत्री मिलनार्थमागच्छतीति समुद्रे श्रिया सदावोऽप्युचित एव ॥ इति द्वीपबन्दिरे संघागमनम् ॥ ... ततः प्रतस्थे प्रभुरुन्नताख्यं पुरं प्रति प्रीतमना मुनीन्द्रः । .. मेघागमे मानसमभ्रमार्गवहाप्रवाहादिव राजहंसः ॥ ६३ ॥
ततो द्वीपोन्नतदेवलपाटकसत्कसंघसमागमनानन्तरं हीरविजयसूरिः ततोऽजयपुरादुन्नतमित्याख्या नाम यस्य तादृशं पुरं प्रति प्रतस्थे। उन्नतनगराभिमुखं प्रचलति स्म । किंभूतः । प्रभुः सर्वधर्मकार्यकरणप्रवण: समर्थः । पुनः किंभूतः । प्रीतमनाः श्रीपार्श्वनाथयात्रया कृत्वा हृष्टमानसः । क इव । राजहंस इव । यथा मेघागमे अभ्रमार्गो मेघावा गगनम् । 'सुराभ्रोडुमरुत्पथोऽम्बरम् ,' तथा 'अभ्रं धूमयोनिस्तनयित्नुमेघाः' इति द्वयमपि हैम्याम् । तस्य वहा नदी। गङ्गेत्यर्थः । 'सिद्धखःखर्गिखापगाः । ऋषिकुल्या हेमवती' इत्यपि हैम्याम् । तथा 'सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतखिनी निम्नगा' इत्यपि