Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 927
________________ ८१६. काव्यमाला। काढून वाञ्छन्निव । तेजःशब्देन प्रतापोऽप्युच्यते । यथा नैषधे-'एतस्योत्तरमद्य नः समजनि त्वत्तेजसा लइने-' त्वत्प्रतापानामतिक्रमेण तद्गृत्तिः ॥ त्रिभिर्विशेषकम् ॥ इत्यजयराजरोगापहारकाजयपार्श्वनाथप्रस्तावनम् ॥ नामेव तस्यावनिवल्लभस्य पार्श्वप्रभोस्तस्य बभूव नाम । तद्वासितस्येव पुरस्य वाराणस्या इवैतस्य निवासभूमेः ॥ ५७ ॥ तस्यावनिवल्लभस्य तस्य पूर्वकथितस्याजयस्य राज्ञो नाम्नवाभिधानेनैव पार्श्वप्रभोः श्रीपार्श्वनाथस्य नाम बभूव । अजयपार्श्वनाथ इति संजातम् । कस्येव । तेनाजयराजेन वासितस्य निवेशितस्य स्थापितस्य अजयपुरमिव। किंभूतस्य पुरस्य । अजयपार्श्वनाथस्य निवासभूमेः स्थितिस्थानकस्य : कस्या इव । वाराणस्या इव। यथा वाराणसी भगवतः श्रीपार्श्वनाथस्य जन्मभूमित्वाद्वासस्थानम् ॥ इति पाठान्तरम् ॥ ध्यातोऽधुनाप्येष पयोधिमध्ये प्रयाति वाते प्रतिकूलभावम् । निर्विघ्नयन्पोत इवाङ्गभाजः प्रभुः सुखं लम्भयति प्रतीरम् ॥ १८ ॥ भो भव्याः, अधुनापि पञ्चमारके अस्मिन्कलौ प्रवर्तमानेऽपि वा पयोधिमध्ये जलधिजलान्तराले ध्यातोऽर्थाल्लोकानगोचरीकृतः स्मृतोऽपि वा वाते प्रचण्डपवने प्रतिकूलभाव प्रतिकूलतां याति गच्छति सति एष प्रभुरजयपार्श्वनाथः अङ्गभाजः पार्श्वनाथम्मरणप्रवणाः प्राणिनः निर्गता विलयं प्राप्ता विघ्नाः प्रत्यूहा येभ्यस्ते निर्विघ्नान्करो. तीति । 'तत्करोति तदाचष्टे' इति प्रक्रियासूत्रेण जिः । 'मिर्डित्करणे' इति सारखते इति सारखतसूत्रेण जिप्रत्ययः । निर्विघ्यति निर्विघ्नयतीति निर्विन्नयन् । विनरहितान्कु. नित्यर्थः । निरन्तरायान् सृजन् सुखं यथा स्यात्तथा कुशलेनेत्यर्थः । प्रतीरं तटभूमी खखवेलाकूलावनी लम्भयति प्रापयति । क इव। पोत इव । यथा निर्वहनान्वोहित्थरहितांस्तथाम्भोधिमध्ये पतिताजनान् यानपात्रे खस्मिन्नधिरोप्य सुखेन तीरं नयति ॥ बहुदिदैः किं भवदीयभाग्यैरारोपितस्तेन महीधनेन । सुपर्वशाखीव समीहितानि यच्छंश्चिरं नन्दतु पार्श्वनाथः ॥ १९॥. भो भव्याः, किं बहूदितैः बहुभिरनल्परुदितैः कथितैः किमस्तु । एषोऽजयपार्श्वनाथः वो युष्माकं समीहितानि सम्यगैहिकानि पुत्रकलत्रद्रविणादीनि आमुष्मिकाणि खर्गापवर्गा. दिकानि कामितानि मनोरथान् यच्छन् पूरयन् चिरं बहुसमयमाकल्पान्तकालं यावन्नन्दतु विजयवान् प्रवर्तताम् । किंभूतः । तेन महीधनेनाजयराजेन आरोपितः स्थापितः । उत्प्रेक्ष्यते-भवदीयभाग्यैः युष्मत्संबन्धिभिः सुकृतैः सुपर्वशाखी कल्पवृक्ष इवारोपितः ॥ इत्यजयपार्श्वनाथप्रबन्धः । विस्तरतस्त्वेतद्यतिकरः शत्रुजयमाहात्म्यादवसेयः ॥ तत्रोपदिश्येति जनान्मुमुक्षुक्षोणीऋभुक्षा क्षणमक्षिलक्ष्यम् । . प्रणीय नत्वा च तमात्मना तत्पुरं पवित्रीकृतवान्म तद्वत् ॥ ६ ॥

Loading...

Page Navigation
1 ... 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980