Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः]
हीरसौभाग्यम् ।
८६९
सुकृतश्रिया अलंक्रियमाणे भूष्यमाणं पावै जीवान्तिकं यस्य । परिणेतापि तत्कालपारेणीयतया अलंक्रियमाणवामाङ्गान्तिकः ॥ इदं तु पाठान्तरम् ॥
गीति जगुर्नागरिकाः किरन्ती सुधां सुधादीधितिमण्डलीवत् । यां श्रोत्रपत्रैर्विनिपीय चित्रार्पितैरिवाभूयत मार्यमार्गः ॥ १७ ॥ काश्चन नागरिका द्वीपोत्रतपुरपुरंध्यो गीति सूरिगुणगानं जगुर्गायन्ति स्म । कि कुर्वतीम् । गीतिं किरन्ती विस्तारयन्तीम् अर्थात्कर्णयोर्वर्षन्तीम् । काम्। सुधाममृतम् । किंवत् । सुधादीधितिमण्डलीवत् । यथा आश्विनमाससंबन्धिराकामृगाङ्कमण्डल्यः पीयूष किरन्ति, तथा नागरिका कर्णामृतवर्षिणीं गीतिं गायन्ति । यां गीति श्रोत्रपत्रैः कर्णपर्णै: कृत्वा विनिपीय सादरं निशम्य मार्गस्य अजयोनतपुरयोरन्तरालाध्वनः मागैर्मृगगणेश्चित्रापितैरालेख्यस्थापितैलिखितैरिवाभूयत संजायते स्म ॥
गजाधिरूढा व्यरुचन्कुमारा विभूषिता भूषणधोरणीभिः । प्रवालपुष्पावलिशालमानाः प्रस्थप्ररूढा इव बालसालाः ॥६॥ भूषणानां मणिवर्णाभरणानां धोरणीभिः श्रेणीभिः विभूषिता अलंकृताङ्गाः । तथा गजाधिरूढाः सिन्धुरस्कन्धाध्यासिन: केचन कुमाराः व्यरुचन् शुशुभिरे। उत्प्रेक्ष्यतेप्रवालानां पल्लवानां पुष्पाणां कुसुमानामावलीभिर्मालिकाभिः शालमानाः शोभमानाः प्रस्थेषु सानुषु प्ररूढा उद्गता बालसालाः लघुपादपा इव ॥
काश्चित्कुमार्यः शिबिकां श्रयन्त्यो माणिक्यभूषा वपुषा वहन्त्यः । कुतूहलाद्भवलयं भजन्त्यो विमानयाना इव नाकिकन्याः ॥ १९॥ काश्चित्कुमार्यो लघुकन्यकाः भान्ति तदवसरे शोभन्ते । किं कुर्वन्त्यः । शिबिका याप्ययानं श्रयन्त्यः परिचरन्त्यः । शिविकाधिरूढा इत्यर्थः । पुनः किं कुर्वन्त्यः।माणिक्यानां रत्नविशेषाणां भूषा अलंकारान् वपुषा खशरीरेण वहन्यो धारयन्त्यः । 'वृता विभूषामणिरश्मिकार्मुकैः' इति नैषधे । उत्प्रेक्ष्यते-कुतूहलात्कौतुकावलयं मेदिनीमण्डलं भजन्त्यः सेवमाना आश्रयन्त्यः । विमानेन देवयानेन यानं गमनं यासां ता. दृश्यो नाकिकन्या देवकुमारिकाः इव । यया इन्द्रस्य । 'तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः । सुता जयन्ती तविषी त!विष्युच्चैःश्रवा हयः ॥' इति हैम्याम् ॥
गत्या जितोऽनेन किमकुम्भी द्रष्टुं तमीत्युत्सुकितोऽब्धिमध्यात् । किमीयिवानेष तदन्ववायः शृङ्गारितास्तत्र गजा विरेजुः ॥ ७० ॥ तत्र तस्मिन् संमुखागमनसमये शृङ्गारिताश्च शृङ्गारभूषणतैलचामराद्याडम्बरैरलंकृताः गजा हस्तिनो विरेजु: शोभन्ते स्म । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण इति हे. तोर्वा तं सूरिं द्रष्टुं प्रेक्षितुमुत्सुकित उत्कण्ठितः सन् अब्धिमध्यात्समुद्रान्तरालादेष प्र. सक्षं लक्ष्यमाणः तस्यैरावणस्य अन्ववायो गजघटारूपो वंशः किमीयिवान् मागत इव ।
Loading... Page Navigation 1 ... 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980