Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 938
________________ १७ सर्गः] हीरसौभाग्यम् । ८७७ मन्त्रदोष-चूर्णदोष-योगदोषाः । अथैषणादोषा दश साधुश्राद्धेभ्यः समुत्पद्यन्ते । तानपि दर्शयति-शङ्कितदोष-मक्षितदोष-बहिनिक्षिप्त-पिहितदोष-संहृतदोष-दायकदोषउन्मिश्रदोष-अपरिणत-लिप्तदोष-छर्दितदोषाः । तथा प्रभोजनं कुर्वतां साधूनां प्रसङ्गात्पञ्च दोषा भवेयुः । तेऽप्युच्यन्ते-संयोजन-अप्रमाण-इङ्गाल-धूमसामान्यअकारणदोषाः । केचित्सप्तचत्वारिंशदपि दोषान्प्रतिपादयन्ति । तस्मात्तेऽपि प्रोकाः । परं मौलास्तु द्विचत्वारिंशत्संख्याका एव । आहारस्य भोजनस्य दोषा अपगुणास्ते निषिद्धाः निवारिताः । एतावता मूरि(रयो) द्वाचत्वारिंशद्दोषनिर्मुक्तमाहारमभ्यवहरन्ति । किंभूता दोषाः । कातरं क्लीबं ततः शुद्धिविमुखं कुर्वन्तीति कातरयन्ति। कातरयन्ते स्मेति कातरिताः । 'तत्करोति तदाचष्टे' इति प्रक्रियासूत्रेण जिप्रत्ययः । 'अन्तन्तात् क्तः' इति क्तप्रत्ययः । जिलोपे इट्प्रत्ययश्चेति सिद्धम् । उदाहरणं यथा नैषधे प्रथमकाव्ये-'नल: किंभूतः । सितच्छत्रितकीर्तिमण्डल: पूर्वोक्तयुक्तिरेव । .सितं च छत्रं च सितंच्छनं करोतीति सितच्छत्रयति सितच्छन्यते सेति सितच्छत्रिता कीर्तिमण्डले देशे येन' इति नरहर्याम् । कातरीकृता हीनसत्त्वा विहिता अन्ये अपरे सत्त्वाः कर्मपरिणतिवशाच्चारित्रपालनासमर्थाः प्राणिनो यैस्ते । पुनः किंभूताः । कृतं निर्मितं पापस्य दुःकृतस्य पोषः पुष्टियः । पापोपचयकारिभिरित्यर्थः । केनेव निषिद्धाः । द्वेषजुषेव । यथा विरोधवता अतीववैरभाजा भूभुजा द्वेष्याः खवैरिणः पराक्रमेण निषिध्यन्ते मूलतोऽप्युच्छिद्यन्ते ॥ अंहोद्रुहामाभरणानि भिक्षोः किं द्वादशानां प्रतिमारमाणाम् । तपांसि यो द्वादशभेदभिन्नान्यपूर्णपत्कायमशूशुषच्च ॥ ९३ ॥ यो भगवान् अनशन-मूनोदरिका-वृत्तिसंक्षेप-रसत्याग-कायक्लेश-संलीनताः इति. षडिधं बाह्यं तपः । तथा प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-कायोत्सर्गाः इति षोढा आभ्यन्तरं तपः । षट् बाह्यानि षडाभ्यन्तराणीति द्वादशभिर्भेदैः प्रकारैः भिन्नानि पार्थक्यभाजि तपांसि अपूपुषत् पुष्णाति स्म । उत्प्रेक्ष्यते-भिक्षोः साधोः प्रति अलेपाहारैकभक्तपानसत्का प्रथमा एकमासस्य, द्वितीया द्विमास्याः, तृतीया त्रिमास्याः, चतुर्थी चतुर्मास्याः, पञ्चमी पञ्चमास्याः, षष्ठी षण्मास्याः, सप्तनी सप्तमास्याः। पूर्वविधिः सर्वावपि ग्राह्याः । अष्टमी सप्तरात्रिका । तत्र चतुर्विधाहारनिषेधकचतुर्थाः । तथा ग्रामावहिः कायोत्सर्गकरणम्। नवमी सप्तरात्रिकी। उत्कटिकासनेन दण्डासनेनेवास्थानम् । दशमी सप्तरात्रिकी । साष्टमभक्का चतुर्विहारप्रत्याख्यानं च गोदुहिकासनेनावस्थानाम् । एकादशी एकरात्रिकीत्युच्यते । परममष्टमभकेन पूर्यते चतुर्विधाहारप्रत्याख्यानं च तृतीये दिने । प्रामादहिः कार्योत्सर्गकरणम् । द्वादश्यपि एकरात्रिकी । परं चतुर्विधाहारत्यागाष्टमभक्केन पूर्यते तत्रानिमेषनेत्राभ्यां कायोत्सर्गकरणम् । इत्थं सूत्रोक्त विधिविधानात्प्रतिमानां द्वादशसंख्याकानां प्रतिमारमाणां श्रमणानुष्ठानविशेषलक्ष्मीणामाभरणानीव भूषणानीवापूपुषत्। किंभूतानां प्रतिमारमाणाम्।

Loading...

Page Navigation
1 ... 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980