Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 945
________________ ८८४ काव्यमाला। ल्पायुष्ट्वान्नवानामेव सूर्यादिकानां मण्डले समूहे सत्यपि सुधांशोश्चन्द्रस्यैव एकं राजपदं ददिवान् ॥ इति परिवारः ॥ यस्योपदेशाद्बहवो विहाराः संजज्ञिरे मन्दिरचैत्ययुक्ताः । त्वष्ट्रा क्षितौ वस्तुमिवामृतखःश्रीभिर्व्यधाप्यन्त विलाससौधाः ॥११॥ यस्य प्रभोरुपदेशाद्बहवोऽनल्पसंख्याका विहारा जिनप्रासादाः संजज्ञिरे । किंभूताः। मन्दिरचैत्ययुक्ताः गृहदेवतावसरसहिताः । 'देहरासर' इति प्रसिद्धिः । एतावता गृहत्यान्यप्येकान्यासन् । उत्प्रेक्ष्यते-अमृतखःश्रीभिरपवर्गस्वर्गलक्ष्मीभिः कत्रीभिः क्षिती भूमण्डले वस्तुं निवासं कर्तुं त्वष्ट्रा विश्वकर्मणा क; विलाससौधा लीलागृहा व्यधाप्यन्त कारिता इव ॥ पञ्चाशदईप्रतिमाप्रतिष्ठाः प्रभुः पृथिव्यामनुतिष्ठति स्म । दिशश्चतस्रोऽप्यपुनाद्विहारैः प्रभाप्रसारैरिव भानुमाली ॥ ११४॥ . प्रभुः सूरिः अर्हत्प्रतिमानां शतसहस्रसंख्याकानां जिनबिम्बानां प्रतिष्ठा वासक्षेपाञ्जनशलाकादिकादिक्रियाभिः प्रतिष्ठापनानि पश्चाशत्संख्याकाः पृथिव्यां गुर्जरसौराष्ट्रमरुमेदपाटलाटमेवातकुशावर्तादि मण्डलभूमण्डलमध्ये अनुतिष्ठति स कृतवान् । पुनश्चतस्रश्चतुःसंख्याकाः पूर्वपश्चिमदक्षिणोत्तरसंज्ञा दिशो हरितो विहारैः खविचरणैः कृत्वा अपुनात् पवित्रीचकार । क इव । भानुमालीव । यथा भाखान् प्रभाप्रसारैः खकिरणविस्तारैः कृत्वा चतस्रोऽपि दिशः पुनीते ॥ यस्मिन्पुनाने भुवमर्बुदाद्रिसमेतसिद्धाचलरैवतेषु ! संघाधिपाः पाण्डववच्छतानि त्रीणि त्रिकेणाभ्यधिकान्यभूवन् ॥११५॥ यस्मिन् सूरिशके भुवं पृथिवीपीठं पुनाने पवित्रीकुर्वाणे सति अर्बुदाद्रिः हिमाचलनन्दनगिरिः वृषभदेववासुपूज्यारिष्टनेमिमहावीरवर्ज विंशतितीर्थकृतां निर्वाणभूमाकल्याणकपावनीकृतं संमेताचल: शजयो विमलाचल: रैवतो गिरिनारगिरिः एतत्प्रमुखेषु तीर्थेषु पाण्डववत्पाण्डुनन्दना इव त्रिकेण त्रयेणाधिकानि त्र्युत्तराणि त्रीणि शतानि संघाधिपाः संघपतयः अभूवन् समजायन्त ॥ आत्मा भृतो येन जिनेश्वराद्रितीर्थादियात्रोद्भवपूर्णपुण्यैः । प्राक्शृङ्गिशृङ्गागमनोद्गतांशुभारैरिवाम्भोरुहिणीवरेण ॥ ११६ ॥ येन भगवता जिनेश्वराद्रिः शत्रुजयशैलः । पञ्चाशदादौ किल मूलभूमेर्दशार्श्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वरादेः ॥ इति नगरपुराणोकमन्तर्वाच्यान्तर्गतमत्र लिपीकृतमस्ति । स एव तीर्थः सिद्धिगमनस्थानम् । तीर्थशब्दः पुंनपुंसकलिङ्गे । स एव तदेव वा आदौ येषां तेषां यात्रा दर्शनं स्पर्शनं तदर्हतां द्रव्यभावस्तवार्चनातपोविधानादिकाः क्रियास्ताभ्यः उद्भव उत्पत्तिर्येषां तादृशैः पूणैरन्यूनैः

Loading...

Page Navigation
1 ... 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980