________________
८८४
काव्यमाला।
ल्पायुष्ट्वान्नवानामेव सूर्यादिकानां मण्डले समूहे सत्यपि सुधांशोश्चन्द्रस्यैव एकं राजपदं ददिवान् ॥ इति परिवारः ॥
यस्योपदेशाद्बहवो विहाराः संजज्ञिरे मन्दिरचैत्ययुक्ताः । त्वष्ट्रा क्षितौ वस्तुमिवामृतखःश्रीभिर्व्यधाप्यन्त विलाससौधाः ॥११॥ यस्य प्रभोरुपदेशाद्बहवोऽनल्पसंख्याका विहारा जिनप्रासादाः संजज्ञिरे । किंभूताः। मन्दिरचैत्ययुक्ताः गृहदेवतावसरसहिताः । 'देहरासर' इति प्रसिद्धिः । एतावता गृहत्यान्यप्येकान्यासन् । उत्प्रेक्ष्यते-अमृतखःश्रीभिरपवर्गस्वर्गलक्ष्मीभिः कत्रीभिः क्षिती भूमण्डले वस्तुं निवासं कर्तुं त्वष्ट्रा विश्वकर्मणा क; विलाससौधा लीलागृहा व्यधाप्यन्त कारिता इव ॥
पञ्चाशदईप्रतिमाप्रतिष्ठाः प्रभुः पृथिव्यामनुतिष्ठति स्म । दिशश्चतस्रोऽप्यपुनाद्विहारैः प्रभाप्रसारैरिव भानुमाली ॥ ११४॥ . प्रभुः सूरिः अर्हत्प्रतिमानां शतसहस्रसंख्याकानां जिनबिम्बानां प्रतिष्ठा वासक्षेपाञ्जनशलाकादिकादिक्रियाभिः प्रतिष्ठापनानि पश्चाशत्संख्याकाः पृथिव्यां गुर्जरसौराष्ट्रमरुमेदपाटलाटमेवातकुशावर्तादि मण्डलभूमण्डलमध्ये अनुतिष्ठति स कृतवान् । पुनश्चतस्रश्चतुःसंख्याकाः पूर्वपश्चिमदक्षिणोत्तरसंज्ञा दिशो हरितो विहारैः खविचरणैः कृत्वा अपुनात् पवित्रीचकार । क इव । भानुमालीव । यथा भाखान् प्रभाप्रसारैः खकिरणविस्तारैः कृत्वा चतस्रोऽपि दिशः पुनीते ॥
यस्मिन्पुनाने भुवमर्बुदाद्रिसमेतसिद्धाचलरैवतेषु ! संघाधिपाः पाण्डववच्छतानि त्रीणि त्रिकेणाभ्यधिकान्यभूवन् ॥११५॥ यस्मिन् सूरिशके भुवं पृथिवीपीठं पुनाने पवित्रीकुर्वाणे सति अर्बुदाद्रिः हिमाचलनन्दनगिरिः वृषभदेववासुपूज्यारिष्टनेमिमहावीरवर्ज विंशतितीर्थकृतां निर्वाणभूमाकल्याणकपावनीकृतं संमेताचल: शजयो विमलाचल: रैवतो गिरिनारगिरिः एतत्प्रमुखेषु तीर्थेषु पाण्डववत्पाण्डुनन्दना इव त्रिकेण त्रयेणाधिकानि त्र्युत्तराणि त्रीणि शतानि संघाधिपाः संघपतयः अभूवन् समजायन्त ॥
आत्मा भृतो येन जिनेश्वराद्रितीर्थादियात्रोद्भवपूर्णपुण्यैः । प्राक्शृङ्गिशृङ्गागमनोद्गतांशुभारैरिवाम्भोरुहिणीवरेण ॥ ११६ ॥
येन भगवता जिनेश्वराद्रिः शत्रुजयशैलः । पञ्चाशदादौ किल मूलभूमेर्दशार्श्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वरादेः ॥ इति नगरपुराणोकमन्तर्वाच्यान्तर्गतमत्र लिपीकृतमस्ति । स एव तीर्थः सिद्धिगमनस्थानम् । तीर्थशब्दः पुंनपुंसकलिङ्गे । स एव तदेव वा आदौ येषां तेषां यात्रा दर्शनं स्पर्शनं तदर्हतां द्रव्यभावस्तवार्चनातपोविधानादिकाः क्रियास्ताभ्यः उद्भव उत्पत्तिर्येषां तादृशैः पूणैरन्यूनैः