________________
१८५
१७. सर्गः] हीरसौभाग्यम् । पुण्यैः सुकृतैः कृत्वा आत्मा खप्राणी भृतः संपूरितः । केनेव । अम्भोरुहिणीवरेणेव । यथा भानुमालिना प्राङ्गी पूर्वाचलः तस्य शृङ्गे शिखरे आगमनेनोपनमनेन उद्गताः प्रकटीभूताः अंशुभाराः किरणनिकराः सहस्रसंख्यकराः ऋतुभरात्षोडशशतकरा अपि यैस्तैः आत्मा म्रियते । उदयानन्तरमेव किरणबाहुल्यदर्शनादिशयमुत्प्रेक्षोपमा वा ॥ " धात्री पवित्रां सृजतोऽस्य पादन्यासे दुकूलान्यध्रियन्त भव्यैः।
तीर्थाधिराजस्य चतुर्निकायसुरैरिव स्वर्णसरोरुहाणि ॥ ११७ ॥ __ धात्री वसुंधरां पवित्रां पावनां सृजतः कुर्वतः पादचारेण चरतः अस्य सूरेः पादन्यासे चरणयुगलस्थापनस्थान प्रायो बाहुल्येन भव्यैः श्राद्धवर्गः दुकूलानि क्षौमानि वि. विधदेशवासांसि वा अध्रियन्त पादाधः स्थाप्यन्ते स्म। कस्येव । तीर्थाधिराजस्येव । यथा धरित्री पवित्रां विदधानस्य भूमण्डले विहारं कुर्वतः श्रीभगवतश्चतुर्निकायसुरैः भवनपति-व्यन्तर-ज्योतिष्क-विमानवासि-देवैः स्वर्णसरोरुहाणि कनककमलानि पादन्यासे चरणारविन्दयोस्तले विधीयन्ते ॥ स्तम्भादितीर्थे जलदागमेऽस्मिन्स्थिते कदाचिद्भविकव्रजेन । कोटिय॑येऽसृज्यत टङ्ककानां श्रीविक्रमाम्भोरुहबन्धुनेव ॥ ११८ ॥ कदाचित्कस्मिन्नपि जलदागमे वर्षाकाले स्तम्भ इति पदमादौ यस्य तादृशे वीर्ये स्तम्भतीर्थे 'खंभाति' इति लोकप्रसिद्धनामनि अस्मिन् मुनीन्द्रे चतुर्मासीमासीने सति भविकव्रजेन अर्थात् स्तम्भतीर्थादिसंघलोकनिकरेण टङ्ककानां गुर्जरजनपदप्रसिद्धानां नाणकविशेषाणां कोटिरेका कोटिळये दानेऽसूज्यत व्ययीक्रियते स्म । केनेव । श्रीविक्रमाम्भोरुहबन्धुनेव । यथा श्रीमद्विक्रमादित्येन एकस्मिन् वारके दाने वा कोटिः कनकटकानाम् । सुवर्णकानामित्यर्थः । दाने दीयमाना आसीत् । प्रतिश्लोकं काव्यं गाथां च प्रायो जनानां कोटिदातासीत् , न न्यूनमधिकं बहु ॥ प्रेक्ष्य प्रियं शक्रवशा अहिल्यासक्तं क्षितावक्षमया किमेताः। मृगीदृशो न्युञ्छनकानि यस्य प्रायो व्यधू रूपकनाणकेन ॥ ११९ ॥ मृगीदृशो निखिलमेदिनीमण्डलसम्यङ्मृगलोचनाः प्रायो बाहुल्येन यस्य प्रभोर्युञ्छनकानि निर्मित्सतानि रूपकनाणकेन । जातिवाचित्वेनैकवचनम् । रजतसंबन्धिमहमुदील्यारिका-आसेरी-मुदप्फरिका-रूपकादिकेन उपलक्षणादभिरामिकासुवर्णकायेनापि व्यधुः कुर्वन्ति स्म । मृगीदृश उत्प्रेक्ष्यन्ते-प्रियं भर्तारं शक्रमहिल्यायां गौतमर्षिपन्यां तपखिन्यामासक्तं भोगलम्पटीभूतं प्रेक्ष्य दृग्गोचरीकृत्य अक्षमया अस्मात्सर्वोत्तमरूपलावण्यसौभाग्यवपुर्विभवशीलशालिनीविहाय वल्कलमुञ्जदोरिकाजटादिरूपविकरालां तापसीमसौ सेवते इति भर्तरि विषये रुषा ईयया क्षितौ क्षोण्यां किमेताः शक्रवशा इन्द्राण्य इवायाताः ॥ इति माहात्म्यम् ॥